पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ कादम्बरी | पतन्ती निशाया मुखशोभामकरोत् । तदनु रसातलादवनीमंवदीर्योद्गच्छता शेषफर्णामण्डले- नेव रंजनीकरबिम्वेनाराजत रजनी । क्रमेण च सकलजीवलोकानन्दकेन कामिनीजनवल्ल- भेन किंचिदुन्मुक्त्तवालभावेन मकरध्वजवन्धुभूतेन समुपारूढरागेण सुरतोत्सवोपभोगैकयो- ग्येनामृतमयेन यौवनेनेवारोहता शशिना रमणीयतामनीयत यामिनी । अथ तं प्रत्यासन्नस- मुद्र विद्रुमप्रभापाटलितमिव उदयगिरिसिंहकर तलाह तर्हेरिणशोणितशोणीकृतमिव, रतिकलह- कुपितरोहिणीचरणालक्तरसलाञ्छित मिवामिनवोदयरागेलोहितं रजनीकरमुदितं विलोक्या- न्तर्ध्वलित मदनानलाप्यन्धकारितहृद्या तरलिकोत्सङ्ग विवृतशरीराणि मन्मथहस्तवर्तिनी चन्द्रगतनयनापि मृत्युमालोकयन्ती तत्क्षणमचिन्तयम् - 'एकत्र खलु मैधुमासमलयमा- रुतप्रभृतयः समस्ताः, एकत्र चायं पापकारी चन्द्रहतको न शक्यते सोढुम् । इदसतिदुर्विषहं , दशनेति । चन्द्रदर्शनात्स्वकीयनाथनिरीक्षणान्मन्दं मन्दं स्मिताया दशनप्रभेव दन्तकान्तिरिव | तदन्विति । तदनु पञ्चाद्रसातलान्नागलोकादवनी पृथ्वीमवदीर्य विदारणं कृत्वोद्गच्छता प्रादुर्भवता । श्वेतत्ववर्तुलत्व साम्ये नाह --शेपेति । शेपस्य नागाधिपतेः फणामण्डलेनेव फणासमूहेनेव रजनीकरविस्वेन रजनी त्रियामा राज ताशोभत । अत्र रजनिकरविम्बमात्रग्रहणेन चन्द्रस्य वालभावप्रकटीकरणात्समुपारूढातिरागिणेति पूरणी- यम् । ततश्च चन्द्रोदयकालेऽतीवारुण्यं वालत्वात् । तदनन्तरं च तरुणावस्थायामारुण्यमात्रम् । अत एव स मुपारूढरागेणेत्येवाग्रे विशेषणम् । तथा शेषफणेत्यत्रानवरतकमलाकरकमलतललालित हरिपदाम्बुजप्रभारुणामे- ति पूरणीयम् । तेन सर्वं साम्यमुपपद्यते । ततः क्रमेण परिपाट्या शशिना चन्द्रेण यामिनी रात्री रमणीयतां शो- भनीयतामनीयत प्रापिताभूत् । 'नी प्रापणे' धातुः । अथ च शशिनं विशेषयन्नाह - सकलेति | सकलः समग्रो यो जीवलोको मनुष्यलोकस्तस्यानन्दकेन प्रमोदोत्पादकेन कामिनीजन: स्त्रीलोकस्तस्य वल्लभेन प्रियेण । किंचि दिति। किंचिदीषदुन्मुक्तः परित्यक्तो बालभावः शिशुत्वं येन स तेन | मकरेति । मकरध्वजस्य कंदर्पस्य वन्धुभूतेन वजनभूतेन । समेति । समुपारूढोऽध्यासितो रागो रक्तता येन स तेन | सुरतेति । सुरतोत्सवे निधुवनक्षणे य उपभोगरतत्रैकयोग्येन।सर्वथोचितेनेत्यर्थः। अमृतमयेन पीयूषात्मकेन । किं कुर्वता । आरोहतारोहणं कुर्वता । गगनमिति शेषः।सकलानन्दकारित्वादिसाधर्म्यादुत्प्रेक्षते - यौवनेनेव तारुण्येनेव | अथ चन्द्रस्य तरुणभावं वर्ण- यन्नाह — अथेति। आरोहणानन्तरं तं रजनिकरं चन्द्रमुदितं विलोक्य निरीक्ष्याहं तत्क्षणं तत्कालमचिन्तयं चि- न्तितवतीत्यन्वयः । अथ रजनिकरं विशिनष्टि-- अभीति । अभिनवः प्रत्यग्रो य उदयरागस्तेन लोहितं रक्तम् । अत एव कीदृशमिव । प्रत्यासन्नः समीपवर्ती यः समुद्रः पयोधिस्तस्मिन्विद्रुमा रक्तकन्दास्तेषां प्रभाः कान्त- यस्ताभिः पाटलितमिव श्वेतरतीकृतमिव । उदयेति । उदयगिरेः पूर्वाद्रेः सिंहो हर्यक्षस्तस्य करतलेन च पेटयाहतस्ताडितो यः हरिणः तस्य शोणितं रुधिरं तेन शोणीकृतमिव रक्तीकृतमिव । रतिकलहेन काम कलहेन कुपिता कोपं प्राप्ता या रोहिणी चन्द्रस्त्री तस्याश्चरणौ पादौ तयोरलक्तरसो यावकद्रवस्तेन लाञ्छित मि चिहितमिव । अथ विशेष अन्तर्मध्ये ज्वलितो मनान कामवद्धि-