१०७ पूर्वभागः । बहुना । यस्यां सुरासुरचूडामणिमरीचिचुम्बित चरणनखमयूखः, निशितशैलदारितान्धकम- हासुरः, गौरीनूपुरकोटिघृष्टशेखर चन्द्रशकलः, त्रिपुरभस्मरजः कृताङ्गरागः, मकरध्वजध्वंस - विधुरया रत्या प्रसादयन्त्या प्रसारितकैरयुगविगलितर्वैलयनिकरार्चितचरणः प्रलयानलशि- खाकलापक पिलजटाभारभ्रान्त सुरैसिन्धुरन्धकारातिः, भगवान्, उत्सृष्टकैलासवासप्रीतिर्म- हाकालाभिधानः स्वयं वैसति । " तस्यां चैवंविधायां नगर्यो नैलनहुषययातिधुन्धुमारभरतभगीरथदेशरथप्रतिमः, भुजबैलार्जितभूमण्डलः, फलितशक्तित्रयः, मतिमान् उत्साहसंपन्न: नीतिशास्त्राखिन्न- बुद्धिः अधीतधर्मशास्त्रः तृतीय इव तेजसा कान्त्या च सूर्याचन्द्रमसोः, अनेक- 19 9 १ त्वात् । न तु लोकानां मित्रेण सुहृदा द्वेषः । कोश इति । कोश: प्रतीकार (?) स्तन गुप्तिर्गपनमसीनां खङ्गा- नाम् । न तु लोकानां कोशस्य भण्डारस्य गुप्तिः । किं बहुनेति । किं बहुजल्पितेनेत्यर्थः । यस्यां नगर्या महाकाल इत्यभिधानं यस्य स देवः स्वयं साक्षासति । तं विशिष्टि - सुरेति । सुरासुराणां यचूडामणिः शिरोरत्नं तस्य मरीचयः किरणास्तै चुम्बिताः स्पृष्टाश्चरणनखानां मयूखा यस्य सः । निशितेति । निशितं तीक्ष्णं यच्छ्रलं शस्त्रविशेषस्तेन दारितो भिन्नोऽन्धकमहासुरो येन स तथा । गौरीति | गौरी मानवती तस्याः सान्त्वनावसरे तन्नूपुरस्य या कोटिस्तया घृष्टं घर्पणां प्रापितं शेखरेऽवतंसे चन्द्रशकलं यस्य स तथा । त्रिपुरेति | त्रिपुरस्य त्रिपुरदैत्यस्य यद्भस्मरजस्तेन कृतो विहितोऽङ्गरागो भस्मोद्धूलनं येन सः । तं स्वय- मेव भस्मीकृत्य तेनाङ्गरागो विहित इति भावः । मकरेति | मकरध्वजस्य कंदर्पस्य यो वंसो दाहस्तेन विधु- रया दुःखितया रत्या मदनस्त्रिया प्रसादयन्त्या प्रसन्नीकुर्वत्या ईश्वरमिति शेषः । तया प्रसारितं विस्तारितं यत्करयुगं हरतयुगं तस्माद्विगलितानि निपतितानि यानि वलयानि कङ्कणानि तेषां निकरः समूहस्तेनार्चितौ पूजितौं चरणों पादौ यस्य सः | प्रलयेति । प्रलयसंवन्ध्यनलो वह्निस्तस्य शिखा ज्वालाखासां कलापः समू- हस्तेन कपिलः पिङ्गलो यो जटाभारः सटासमूहस्तेन भ्रान्ता त्रस्ता सुरसिन्धुर्गङ्गा यस्मात्स तथा । अन्धकारा- तिरन्धकनाम्नो दैत्यस्यारातिः शत्रुभगवान्माहात्म्यवान् | उत्सृष्टेति । उत्सृष्टा त्यक्ता कैलासवासप्रीती रजता- व्यवस्था स्नेहो येन सः । 1 तस्यां चेति । तस्यां नगर्या उज्जयिन्याम् । एवमिति । एवंविधायां पूर्वोक्तप्रकारेण व्यावर्णि- तस्वरूपायां तारापीडो नाम राजाभूदिति दूरेणान्वयः । अथ च तमेव विशिनष्टि – तत्र प्रथमान्तानि स वण्यपि राजविशेषणानि | नलो नैपवन नहुपो नृपविशेषो योऽगस्तिशापादजगरी जातः, ययातिर्यदु- पिता, धुन्धुमारः कुबलाश्वः, भरतो दौंष्यन्तिः, भगीरथः सगरपौत्रः, दशरथो रामपिता, एतेषां प्रतिमः स दृशः । ‘प्रख्यः प्रकारः प्रतिमः' इति कोशः | भुजेति । भुजवलेन बाहुवलेनार्जितमुपार्जितं भूमण्डलं पृथ्वीमण्डलं येन स तथा फलितं संजातफलं शक्तित्रयं यस्य स तथा । प्रभुशक्तिर्मन्त्रशक्तिरुत्साह 27 -43
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१०५
दिखावट