पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । र्मालवीमुखकमलकान्ति लज्जितस्येन्दोः कलङ्कमिवापनयन्तो दूरप्रसारितध्वजभुजा: प्रासादा लक्ष्यन्ते । यैस्यां च सौधशिखरशायिनीनां पश्यन्मुखानि पुरसुन्दरीणां मदनपरवश इव पतितः । प्रतिमाच्छलेन लुठति बहलचन्दनजलसेकशिशिरेषु मणिकुट्टिमेषु मृगलाञ्छनः । यस्यां च निशावसानप्रबुद्धस्य तीरतारमपि पठतः पञ्जरभाज: शुकसारिकासमूहस्याँ- भिभूतगृहसारसस्वरामृतेन विस्तारिणा विलासिनीभूपर्णरवेणविभाव्यमाना व्यर्थीभ- वन्ति प्रभातमङ्गलगीतयः । यस्यां चानिवृत्तिर्मणिर्मंदीपानाम्, अन्तस्तरलता हैौरा- णाम, अस्थितिः संगीत मुरजध्वनीनाम द्वन्द्ववियोगश्चकनानाम्, वर्णपरीक्षा कन- काजाम, अस्थिरत्वं ध्वजानाम्, मित्रद्वेषः कुमुदानाम्, कोशगुप्तिरसीनाम् । किं १ १०६ - शिनधि-दृरेति । दूरमृर्ध्वं प्रसारिता विसारिता ध्वजा वैजयन्त्य एव भुजा येषां ते तथा । किं कुर्वन्त इव । इन्दोचन्द्रस्य कलङ्क मालिन्यमपनयन्त इव दुरीकुर्वन्त इव | चन्द्रं विशिष्ट-मालवीति | मालव्यः मालवदेशोद्भवाः तासां मुखकमलानि तेषां कान्तिस्तया लजितस्य त्रपितस्य । तत्करणे कारणं दर्श- यन्नाह - निशि निशीति | निशि निशि प्रतिनिशमुलसद्भिः शोभमानैः पवनेन वायुना विलोलैश्चपलैर्दु कूलपवैर्वस्त्राचलैः | यस्यां चेति । यस्यां नगर्यां मृगलाञ्छनश्चन्द्रो मणिकुहिमेषु प्रतिमाच्छलेन प्रतिवि म्वमिर्पण छुटति प्रसरति । कीदृशः । मदनेन कंदर्पण परवशः परायत्त इव | हेतुमाह - किं कुर्वन् । पश्य- न्विलोकयन् । कानि । साँध शिखरशायिनीनां गृहप्रान्तस्थायिनीनां पुरसुन्दरीणां नगरनारीणां मुखानि वद- नानि । कीदृशेषु मणिकुट्टिमेषु | बहलेति | वहलं यच्चन्दनजलं मलयजद्रवमिश्रिताम्भस्तेन सेकः सिञ्चनं तेन शिशिरेषु शीतलेषु । अतएव पतित इति विशेषणं शिशिरवाञ्छकत्वात्कामार्तस्येति भावः । यस्यां चेति । प्रभाते प्रत्यूपे मङ्गले नैमित्तिका गीतयो व्यर्थीभवन्ति निष्फलीभवन्ति । व्यर्थभवने हेतुद्वयं प्रदर्शयन्नाह – शुकेति । शुकः कीरः, सारिका पीतपादा, तयोः समूह: संघातस्तस्य | अभिभूतानि तिरस्कृतानि गृहसारसानि येन | सारसानीत्यत्र लक्षणया सारसस्वरस्तादृशेन ख़रामृतेन । विलासिनीति । विलासिन्यः स्त्रियस्तासां भूषणरवेणाभरण निनादेन विस्तारिणा प्रसरणशीलेनाविभाव्यमानाः पराभूयमानाः | अथ शुकसारिकासमूहं विशिनधि - निशेति | निशाया रजन्या अवसाने प्रान्ते प्रवुद्धस्य जागृतस्य । तारेति । तारतारमप्युच्चस्तरमपि पठतः पठनं कुर्वतः । पञ्जरेति । पञ्जरं भजतीति तथा तस्य । पञ्जरस्था- यिन इत्यर्थः । यस्यां चेति । पूर्ववत् | अनिवृत्तिरनिर्वाणता मणिप्रदीपानाम् । न तु लोकानामनिवृत्तिनु परमः | 'निवृत्तिः स्यादुपरमे' इति कोशः | कचित् 'अनिर्वृतिः' इति पाठः । तत्र निर्वृतिः सुखम् । शेषं पूर्ववत् । अन्तरिति । अन्तर्मध्ये तरलो मध्यमणिस्तस्य भावरतत्ता | हाराणां मुक्कामालम्वानाम् । 'नायकस्तरलः' इति कोशः । न तु लोकानामन्तचित्ते तरलता चावल्यम् । 'तरलं कम्पनं कम्प्रम् इति कोशः । ७ स्थिति रति । अस्थितिस्त ललयादिष्व स्थ संगीतमरजध्वनी प्रेक्षणार्थी