पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरा सप्तप्तन्तुपूतमूर्तिः उपशमितसकलजगदुपलवः विहाय कमलवनान्यवगणथ्य नारायण- वक्षःस्थलवसतिसुखमुत्कुल्हारविन्दहस्तया शूरसभागमव्यंस निन्या निर्व्याजमालिङ्गि- , तो लक्ष्म्या महामुनिजनसंसेवितस्य मधुसूदनचरण इव सुरसरित्प्रवाहस्य प्रभवः सत्यस्य, शिशिरस्यापि रिपुजनसंतापकारिणः स्थिरस्थापि नित्यं भ्रमतो निर्मलस्या- पि मलिनीकृतारातिवनितामुखकमलद्युतेरतिधवलस्यापि सर्वजनरागकारिणः, सुधासू- तेरिव सागर उद्भवो यशसः, पाताल इवाश्रितो निजपक्ष क्षितिमीतैः क्षितिभृत्कुटिलैः, ग्रहगण इव बुधानुगतः, मकरध्वज इवोत्सन्नविग्रहः, दशरथ इव सुमित्रोपेतः, पशुपति- ★ १ रीरं यस्य स तथा | प्रगाजादीनि पडङ्गानि, सप्तमः प्रधानमिति सप्ततन्तवः | उपशासितेति । उपश- मितः शान्ति प्रापितः सकलजगतः समग्र विष्टपस्योपलव उपद्रवो येन स तथा | प्रकारान्तरेण तमेव विशेषयमाह — विहायेति । कमलवनानि नलिनखण्डानि विहाय यक्ला । नारायणस्य कृष्णस्य यद्वक्ष:- स्थलं भुजान्तरस्थकं तत्र या वसतिर्निवासस्तस्माद्यत्सुखं सातं तदवगणय्यावगणनां कृत्वा | उदिति । उत्फु विकसितं यदरविन्दं कमलं तद्वद्धतौं यस्याः सा तया | शूरेति । शुण सुभटेन यः स- मागमः संवन्धस्वस्मिन्व्यसनमासक्तिर्विद्यते यस्याः सा तथा लक्ष्म्या श्रिया निर्व्याजं निष्कपटमालिङ्गित उपगृहितः | रात्वस्य प्रभव उत्पत्तिस्थानम् । तत्रोपमानमाह - महेति | महामुनिजना वसिष्ठादयस्तैः सं सेवितस्य पर्युपासितस्य | सत्यस्य प्रभवः | कस्य क इन। गुरसरित्प्रवाहस्य स्वर्धुनीरयस्य मधुसूदनचरण इव हरिपाद इव । यथा हरेः पादः सन्या उत्पत्तिस्थानं तथायमपि सत्यस्येति भावः । विरोधोत्या तगेव विशेषयमाह—यश इति । यशसः श्लोकस्योद्भव उत्पत्तिस्थानम् । तत्रोपमानमाह - सुधारित । सुधासूतेश्चन्द्र सागरः समुद्र इव | 'अग्विजचन्द्रः' इति कविरूढिः । अथ च चन्द्रयशसोः सा- मयं प्रदर्शयंस्तद्विशेषणान्याह - शिशिरेति । शिशिरस्यापि शीतलस्यापि रिपुजना वैरिजना विरहिजना वा तेषां संतापो दाहस्तत्कारिण इति विरोधः | तत्परिहारतु संतापश्चित्तोद्वेग इयर्थात् । स्थिरेति । स्थिरस्यापि निश्चलस्यापि नित्यं सर्वकालं भ्रमतो गच्छतः । 'सर्वदिग्गामुकं यशः' इति कविरूदेवि रोधः । तत्परिहारस्त्वाकल्पान्तस्थायित्वात्स्थिरो नित्य इयर्थात् । निर्मलेति । निर्मलस्यापि गतमलस्या- पि मलिनीकृता कश्मलीकृता अरातिवनितामुखान्येव कमलानि मुखवत्कमलानि वा तेषां युति नेति विरोधः | तत्परिहारस्तु निर्मलस्य स्वच्छस्येत्यर्थात् । अत्र यशःशब्दस्य नियनपुंसकत्वात्तद्विशेषणे द्यु- तिपदेन नुमागमः । 'दधिदूर्वादौ मङ्गले' इतिवद्हुव्रीहिः । अतीति । अतिधवलस्याप्यतिशुक्लस्यापि सर्वजनानां समग्रलोकानां रागकारिण इति विरोधः । तत्परिहारस्तु रागः स्नेहस्तत्कारिण इयर्थात् । अत्र सर्वत्रापिशव्दो विरोधद्योतको विशेषोक्तिर्वा । पातालेति । पातालं रसातलं तद्वदिव । उभयोः सा- भ्यं प्रदर्शनाह– आश्रित इति । क्षितिभृतो राजानः पर्वताश्च तंपु कुटिला वकारखैराश्रित आसेवितः । उभयं विशिनधि - निजेति । निजा आत्मीया ये पक्षाः स्वजना वाजाश्च तेषां क्षितिः अगला सीता स्वा