पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला

तत्र पर्यङ्कमारुह्य १ध्यात्वैव किमपि क्षणम् ।
तमन्तःपुरविश्रान्तं शुकमानाययत्पुनः ॥ ४८ ॥
तं च कञ्चुकिनानीतमादौ पृष्ट्वा २सुखासिकान् ।
पप्रच्छ कौतुकाक्षिप्तस्तद्वृत्तान्तमनन्तरम् ॥ ४९ ॥
वैशम्पायन को नु त्वं क्व जातः क्वोषितश्चिरम् ।
कुतस्त्यमिदमीदृक्ते कलाशास्त्रादि कौशलम् ॥ ५० ॥
मन्ये जातिस्मरः कोऽपि भवान्भूमिमिमां३ गतः ।
नह्यस्त्यतिशयप्राप्तिरियती पक्षिजातिषु ।। ५१ ।।
केन वा भवतो नाम कृतं विप्रजनोचितम् ।
ईदृशान्यभिधानानि कुतोऽन्त्यजनवेश्मसु४ ।। ५२ ।।
कथं चण्डालसंपर्क५ इह वा कथमागमः ।
इति कार्त्स्न्येन६ वृत्तान्तमात्मनो वक्तुमर्हसि ॥ ५३ ।।
इति पृष्टः क्षितीशेन बहुमानपुरःसरम् ।
क्षणं बुद्ध्यानुसंधाय शुको वक्तुं प्रचक्रमे ।। ५४ ॥
देव विन्ध्याटवी तावत्तव श्रुतिपथं गता ।
पूर्वापरपयोराशिवेलासंस्पर्शशालिनी ।। ५५ ।।
यदेकदेशे कण्डूलगण्डेभदलितद्रुमे ।
उषितौ दण्डकारण्ये ससीतौ रामलक्ष्मणौ ।। ५६ ॥ (युग्मम् )
यत्रागस्त्यमुनेरासीदाश्रमः शमिनां मतः ।
लोपामुद्राकराक्षिप्तजलसंवर्धितद्रुमः ।। ५७ ।।
तस्योपकण्ठे पम्पाख्यमस्ति पुण्यजलं सरः ।
सीताकरतलोल्लूनश्रवणाभरणोत्पलम् ॥ ५८ ॥
तस्यास्ति पश्चिमे तीरे जीर्णः शाल्मलिपादपः ।
आरोहपरिणाहाभ्यां व्याप्तव्योमदिगन्तरः ।। ५९ ।।

१. 'ध्यात्वा वै' ख. २. 'सुखादिकं' ख. ३. 'इहागतः क. ४. 'अन्यजन-' स.

५. 'चाण्डाल-'ख.