पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७८
काव्यमाला ।

तं वीक्ष्य तापसदृशापि१ तदा जगाम
कामस्य गोचरमसौ मधुजृम्भितस्य ।
एकाकिनी सपदि दिक्षु निधाय चक्षुः
कान्तं स्वपन्तमिव निर्भरमालिलिङ्ग ॥ ७९ ॥
चन्द्रापीडं सा च जग्राह गाढं कण्ठस्थाने जीवितं च प्रपेदे ।
तेनापूर्वां सा समुल्लासलक्ष्मीमिन्दुस्पृष्टा सिन्धुवेलेव भेजे ।। ८० ॥
शिलाशस्यां त्यक्त्वा तदनु चिरसुप्तोत्थित इव
क्षणं स्थित्वा जृम्भालसवदनमुन्मील्य३ नयने ।
ततश्चन्द्रापीडः प्रहतमुरजघ्बानपटुना
स्वरेण स्वेनैव स्मितमधुरमाह प्रियतमाम् ।। ८१ ॥
४त्वगभृतप्रभवेऽप्सरसां कुले५ सुतनु जन्म समर्थितवत्यसि ।
यदमुना परिरम्भलवेन६ ते सपदि जीवितमापदयं जनः ।। ८२ ॥
मामन्वबीभवदिमामियतीमवस्यां
७शापः कलङ्क इव कान्तिहरो द्वितीयः ।
त्वद्विप्रयोगकृत एव बभूव ताप-
स्तन्वङ्गि शुद्रकतनोरपि मृत्यवे मे ॥ ८३ ॥
संरक्षिता तनुरियं तु तव प्रियेति
शापः कृशोदरि विराममवाप८ पाषः ।
अद्यप्रभृत्यखिलमेव हि चन्द्रलोकं
शाधि स्वपादकृतमुद्रमिमं९ च लोकम् ॥ ८४ ॥
सख्याः प्रियं पितृतपोभिरवाप्तदिव्य-
जीवं कपिञ्जलकरार्पितपाणिपद्मम् ।
मन्मण्डलादवतरन्तमखण्डकान्ति-
मापाण्डगण्डमवलोकय पुण्डरीकम् ।। ८५ ।।
कौतूहलात्सह मयैव गतेन्दुलोक-
मालोकयिष्यसि कदाचन पत्रलेखाम् ।

१. 'दृशो' ख. २. 'अपूर्वं' ख. ३. 'वदनपङ्केरुरुचिः । बभाषे पीयूषद्रवनिवहसं-

स्पर्धिभिरयं वचोभिस्तामुश्वैः सपदि परमानन्दविवश: ||' ख. ४. 'तदमृत' क. ५. 'फुलेष्वतनु' ख. ६. 'बलेन' ख. ७.'शाप: कृशोदरि कान्तिहरो' ख. ८.'चिरंसमवाप' ख. ९.'आमुं'ख.