पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ सर्गः]
७७
कादम्बरीकथासारः

इत्युक्त्वोच्चैर्गमनरभसप्रश्लथीमूतबन्ध-
स्रग्विस्रस्तैः कुसुमविदलैरर्चयित्त्वेव९ पृथ्वीम् ।
दिक्चक्रं च प्रचलरशनानूपुरोत्थैर्निनादै-
रामन्व्येवं द्रुतमुदपतद्द्यामसौ दिव्यकान्तिः ॥ ६९ ॥
स्वतनुकान्तितिरस्कृतचन्द्रिकां गगनमुत्पतितामवलोक्य ताम् ।
सुचिरमूर्ध्वनिवेशितलोचनः कमपि विस्मयमाप जनोऽखिलः ॥ ७० ॥
अथास्य राज्ञो हृदि शूद्रकस्य निरस्तधैर्यादिगुणप्रबन्धः३ ।
कादम्बरीसंस्मरणानुबन्धलब्धावकाशो मदनो जजृम्भे ॥ ७१ ।।
न राजलक्ष्मीं बहु मन्यते स्म४ नोर्वीं न कीर्ति न सरस्वतीं च ।
स५ तद्रसक्षीव इवाललम्बे कादम्बरीमेव नितान्तमन्तः ॥ ७२ ॥
पराङ्मुखः स्पर्शरसेष्वजस्रं नादत्त कर्णौ मधुरेऽपि स ध्वनौ ।
जगाम निर्लक्ष्यनिविष्टलोचनः क्रमेण सर्वेन्द्रियवृत्तिशून्यताम् ॥ ७३ ।।
न गुरोरुपदेशमग्रहीद्वुबुधे वस्तु ततो न मूढधीः ।
यतते स्म न तस्य सिद्धये न परिस्पन्दितमप्यपारयत् ।। ७४ ।।
भूताभिभूत इव मूद इव क्रमेण
निःसंज्ञतां विरहवेदनयोपनीतः६ ।
भुक्त्वा७ मयोभवरुजं सुचिरं स राजा
प्राणान्मुमोच सहसैव विहंगमोऽपि ॥ ७५ ॥
जीवात्मकं चान्द्रमसं च तेजः कृतास्पदं तस्य८ तनौ यदासीत् ।
तदेव संक्रान्तमथान्यदेहे९ चित्रा हि विश्वप्रकृतेर्विकाराः ॥ ७६ ।।
अत्रान्तरे चित्ररथात्मजायास्तनुं प्रियस्यान्वहमर्चयन्त्याः।
१०तथैव कालः सुमहानगच्छदच्छोदतीरे तपसि स्थितायाः ।। ७७ ॥
अथ मधुसमये विजृम्भिते सा मदनमहोत्सववासरे सरागम् ।
मलयजधनसारद्दारपुष्पैस्तनुमतिमात्रमलंचकार भर्तुः ॥ ८ ॥

१. 'वदलैः' ख. २. 'एवं' ख. ३. 'धैर्यद्विगुण' ख. ४. 'स' ख. ५. 'अमुष्य

तत्केवलमालमध्ये' ख. ६. 'उपनीतां' ख. ७.'भुक्त्वा मनोभवदाः' ख. ८.'तव' ख. ९.'अथापरत्र' ख. १०. 'तत्रैव' ख.