पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ सर्गः]
७५
कादम्बरीकथासारः

१आपत्काले द्विजातीनामप्यनाश्यं न विद्यते ।
२हस्तादस्माकमादत्त विश्वामित्रः श्वजाधनीम् ॥ ४९ ॥
कृतद्वित्रोपवासोऽपि३ जिहासुरिव जीवितम् ।
लक्ष्यसे वत्स मामैवं कृथा४ भुङ्क्ष्व फलोदकम् ॥ ५० ॥
इत्यचण्डालसदृशैर्वाक्यैरस्त्रीजनोचितैः ।
तस्या विस्मयमानोऽहं चिरमेवमचिन्तयम् ॥ ५१ ।।
नूनमेषा न ५चण्डाली मद्वत्केनापि कर्मणा ।
६भन्ये गतिमिमां प्राप्ता ७मदर्थेनैव वा पुनः ।। ५२ ॥
बिभर्त्युरसि मातेव पश्यति स्निग्धया दृशा ।
वक्ति चैवमतोऽमुष्याः करोमि वचनं वरम् ।। ५३ ।।
इति मत्वासृर्ज वाचमभवं भोजनोन्मुखः ।
अभोजयच्च मामेषा जननीव दिने दिने ॥ ५४ ।।
तत्त्वमस्याः परिज्ञातुमन्वहं प्रार्थनां व्यधान् ।
न त्वेषा प्रार्थ्यमानापि निजं ८रूपमदीदृशत् ॥ ५५ ॥
९नित्यमाशङ्कमानोऽहमतां१० कामपि देवताम् ।
पोष्यमाणोऽनया कालमनैषं तत्र ११पक्वणे ॥ ५६ ॥
एकदा च१२ त्रियामान्ते परित्यक्तोऽस्मि निद्रया ।
अद्राक्षं पक्वणं सर्वमार्यप्रायजनावृतम् ॥ ५७ ।।
आत्मानं च नवोदारहेमपञ्जरवर्तिनम् ।
कन्यकामीदृशीं१३ चैतां दृष्टा देवेन यादृशी ॥५८॥ (युगलकम्)
१४तत्कोऽहं किमहं तत्र रक्षितश्चिरमेनया ।
कस्य हेतोरिहानीत इति राजन्न वेद्भयहम् ।। ५९ ॥

१. 'आपत्सु च' ख. २.'अस्माभिर्दत्तमादत्ते विश्वामित्रः स्म जीवितं' ख.

२.'द्वित्र्युपवासो हि' ख. ४. 'कृत्वा पिब' ख. ५. 'चाण्डाली' ख. ६. 'मध्यां' ख. ५. 'मदर्थे तापिता' ख. ८.'तत्त्वं' ख. ९. 'आशङ्कमानो' ख. १०. 'एनां' ख. ११. 'पञ्जरे' ख. १२. 'तु' ख. १३. 'तादृशी' ख. १४. 'ततः केयं किं तथात्र चिरमस्तोहमेतया' ख.