पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ सर्गः]
७१
कादम्बरीकथासारः

१मम जातस्मृतेर्व्यक्ता प्रावर्तत सरखती।
२स्वयं प्राग्जन्मविद्याश्च हृदयं प्रतिपेदिरे ।। ३ ।।
यथैव चान्ये संस्काराः प्राक्तना मामुपागमन् ।
महाश्वेतानुरागोऽपि ३तथैव समुपागमत् ।। ४ ।।
४अथाभ्यधिकहारीतस्नेहसंवर्धितः क्रमात् ।
गगनाक्रमणे शक्तिमवापं ५जातपक्षतिः ॥ ५ ॥
दिवसेष्वथ गच्छत्सु ६शनैरारूढयौवनः ।
गन्तुमैच्छं७ महाश्वेताश्रमं८ तद्दर्शनोत्सुकः ॥ ६॥
९अचिन्तयं च जन्मेदं विहगस्यापि यातु१० मे।
महाश्वेताश्रमोपान्ते११ तरुकोटरशायिनः ॥ ७ ॥
एकदा त्वथ जाबालेराश्रमं १२समुपागमत् ।
ताताज्ञया सुहृत्स्नेहपराधीनः कपिञ्जलः ॥ ८ ॥
स च१३ पप्रच्छ हारीतं क्व वैश्यम्पायनः शुकः ।
उत्पन्नप्रत्यभिज्ञोऽहमयमस्मीत्यवादिषम् ॥ ९॥
ततश्चिरमरोदीत्स स्ववक्षसि निधाय माम् ।
वयस्यपुण्डरीकस्य धिगियं१४ वर्तते दशा ॥१०॥
१५मयापि रुदतोक्तोऽसौ किं रोदिषि कपिञ्जल ।
१६त्वयापि मत्कृते दृष्टा सखे १७कष्टतरा दशा ।। ११ ।।
क्व हेषा क्व जपाभ्यासः क्व पर्याणं क्व वल्कलम् ।
कोपवीतं क्व वा वल्गा क्व मुनिः क्व तुरंगमः ॥ १२ ॥
ततः क्षणमिव स्थित्वा तातसंदेशमब्रवीत् ।
कपिञ्जलः समासेन पुनर्गमनसत्वरः ॥ १३ ॥

१. 'उपजात' ख. २. 'मम' ख. ३. 'तेभ्यः पूर्वतरस्तथा' ख. ४. 'ततोऽप्यधिक' ख. ५. 'धुतपक्षतिः' क. ६. 'समुपारूढ' ख. ७. 'ऐच्छन्' ख. ८. 'मुखदर्शनदोहदी' ख. ९.'अकल्पयं' ख. १०.'जातु' ख. ११. 'उपान्ततरु-'ख. १२. 'समुपामयौ' ख. १३. 'वै' ख. १४. 'यदियं' ख. १५. 'मया रुदित्वाप्युक्तो' ख.

१६. 'तदापि' ख. १७. 'कष्टतरी' ख. १८. 'इत्थं' ख.