पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८
काव्यमाला ।


दिवसेष्वथ गच्छत्सु निर्विकारशरीरताम् ।
चन्द्रापीडस्य पश्यन्ती स्थिरामाशां१ बबन्ध सा ।। ९२ ॥
ततः सेनान्यमाहूय बलाहकमभाषत ।
विदितस्तव सर्वोऽयं वृत्तान्तो बहुविस्मयः ॥ ९३ ।।
देहकान्त्यविनाशेन जातः संप्रत्ययश्च नः ।
अर्हस्युज्जयिनीं गन्तुं २प्रेभोराश्वासकारणात् ।। ९४ ॥
सोऽब्रवीद्देवि ३तंत्रान्यं प्रज्ञातं प्रहिणोम्यहम् ।
युवराजमिहोत्सृज्य न गन्तुं ४स्वयमुत्सहे ॥ ९५ ।।
ततस्त्वरितको नाम राज्ञो निकटसेवकः५ ।
प्रहितस्तेन लेखश्च स्वहस्तलिखिताक्षरः ॥ ९६ ॥
स गत्वोज्जयिनीं प्राप्य सर्वं राज्ञे न्यवेदयत् ।
राजा सान्तःपुरामात्यस्तदोश्रौषीद्यथाक्रमम् ॥ ९७ ॥
ततस्तनयहृद्भङ्गश्रुतिव्यामूढचेतनः ।
६उत्तरसिंश्च वृत्तान्ते न दृढप्रत्ययोऽभवत् ।। ९८॥
शुकनासस्तु तं प्राह कर्मवैचित्र्यवेदिनः।
श्रुतेतिहासशास्त्रस्य देव कोऽत्र तव भ्रमः ॥ ९९ ।।
देवतानामृषीणां च मर्त्यदेहपरिग्रहः ।
श्रूयते हि पुराणेषु स्मृतावपि च पठ्यते ॥ १० ॥
७चित्राश्चातिशयाः पुंसाममानुषजनोचिताः ।
किमप्यलौकिकं बीजमनुमापयितुं क्षमाः ॥ १०१ ॥
८कुमारश्च गुणैरिन्दोरतिदूरं न भिद्यते ।
सा कान्तिराकृतिः शक्तिः क्व ९दृष्टा चान्यमानुषे ।। १०२ ॥
स्वप्ने देवीमुखे दृष्टचन्द्रमास्तु विशंस्त्वया१० ।
मया११ च पुण्डरीकाङ्का ब्राह्मणी समदृश्यत ।। १०३ ॥

१. 'स्थिरं' ख. २. 'प्रभावाश्वास' क. ३. 'तत्राहं प्रज्ञानं' क. ४.'मम सांप्रतम्'

ख.५.'निकटवर्तिनः' ख. ६.'उक्ते तस्मिन्स' ख. ७. 'चित्राख्यातिशयाः' ख. ८. 'कुमारस्य गुणैरिन्दोरपि मेदो न विद्यते' ख. ९. 'दृष्टान्यत्र पूरुषे' ख. १०. 'तदा त्वया' ख. ११. 'मयापि पुण्डरीकाङ्को ब्राह्मणः' ख.