पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७ सर्गः]
६७
कादम्बरीकथासारः


१अल्पेनैव हि कालेन पुण्डरीकस्य १सस्मितम् । अक्षमालां पुनः पाणिपल्लवे विनिधास्यसि ।। ८०॥ कादम्बर्यपि माधुर्यमुग्धस्मितसुधाञ्चितैः । ३प्रमोदयिष्यते सान्द्रैश्चन्द्रापीडस्य भाषितः ८१ ॥ कादम्बरी तमप्राक्षीद्भगवन्सा४ क्व वर्तते । पत्रलेखेति स त्वाह मया नाज्ञायि तद्गतिः ॥ ८२ ॥ इत्युक्त्वोदपतद्वयोम रोमकूपाम्बुविप्रुषः । ५अच्छोदबिन्दुसंदिग्धाः किरन्नथ कपिञ्जलः ॥ ८३ ॥ तस्मिन्गते महाश्वेताकादम्बर्यौ तथैव ताम् । सशोकविस्मयोत्कम्पे कथया निन्यतुर्निशाम् ॥ ८४ ॥ महाश्वेताकथावृत्ते६ तत्राप्यधिकनिश्चया । कादम्बर्याः स्थिरं चित्ते७ सा प्रत्ययमजीजनत् ।। ८५ ॥ अपरेद्युरथ स्फीतस्फटिकोपलवेदिकाम् । हृद्यामारोप्य कर्पूरतुषारकणदन्तुरैः ।। ८६ ॥ अभिषिच्य जलैः स्वच्छैरनुलिप्य च चन्दनैः। आनर्च चन्द्रापीडस्य देहं कादम्बरी चिरम् ॥ ८७ ।। यदि सत्योऽयमाश्वासः८ सर्घं स्वस्थमथान्यथा । क्व गतो मे तदा मृत्युरित्यन्तर्निश्चिकाय सा ॥ ८८ ॥ जगाद च महाश्वेतामिदानीं ९ननु न त्रपे । सखीति १०व्याहरन्ती त्वां दुःखसब्रह्मचारिणीम् ।। ८९ ॥ विधिना विदधानेन समानसुखदुःखताम् । आवयोश्चिरसंरूढं ११सेखीप्रेम न दूषितम् ॥ ९ ॥ ततः प्रभृति सा मूर्तिमर्चयन्त्यास्त१२ तापसी। चन्द्रापीडस्य चन्द्रार्धचूडस्येव दिवानिशम् ॥ ९१ ॥१. 'कालेनानतिदीर्घेण' ख. २. 'संमताम्' ख. ३. 'प्रसादमेष्यते' ख. ४.'क्व नुवर्तते' ख. ५. 'नैशोदबिन्दु' ख. ६. 'अथावृत्ते' ख. ५, 'तत्र सप्रत्ययं' ख. ८. 'महाश्वासः सर्व स्वच्छं' ख. ९.'अगतत्रपा' ख. १०. 'व्यहरन्ती' क. ११. 'संखिप्रेम' ख. १२. 'अथ' ख.