पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७ सर्गः]
६५
कादम्बरीकथासारः

अप्युत्क्षिप्य तथा१ नीते वयस्ये तेन तत्क्षणम् ।
अहं२ गगनमुत्प्लुत्य३ तमेवानुसरन्नगाम्४ ॥ ५७ ।।
ततोऽसौ दूरमुत्प्लुत्य५ प्रविश्य शशिमण्डलम् ।
६पश्चादेव प्रविष्टं मामवलोक्येदमब्रवीत् ।। ५८ ॥
कपिञ्जल मृगाङ्कं मां विद्धि सोऽहं ७तवामुना ।
वयस्येन वृथा शप्तो हेमकूटगते८ त्वयि ।। ५९ ॥
वोढव्या लोकयात्रा हि लोकपालतया मया ।
उदितोऽहं निजे काले ततः९ प्रविकिरन्करान् ॥ ६० ।।
अयं मदंशुसंस्पर्शप्रवृद्धाधिकमन्मथः१० ।
कण्ठोपान्तगलप्राणो११ रूक्षं मां वीक्ष्य शप्तवान् ।। ६१ ।।
यथाद्य१२ विरहार्तोऽहमेत्य१३ व्यापादितस्त्वया ।
मरिष्यसि तथैव त्वमिन्दो जन्मनि जन्मनि ।। ६२ ।।
परिशप्तो मयाप्येष त्वमप्येवं मरिष्यसि ।
१४भद्वदेवेत्यनागस्कशापतापोदितक्रुषा ।। ६३ ॥
ततः प्रतनुमन्योर्मे परिताप इवाभवत् ।
१५जामातायं महाश्वेतासंबन्धादिति१६ पश्यतः ॥ ६४ ।।
कुर्यादपि१७ प्रतीकारं श्वेतकेतुर्महातपाः ।
१८शरीरमस्य रक्षामि सामृतैरहमंशुभिः ॥ ६५ ।।
इत्युत्क्षिप्य मयेहायमानीतस्त्वं च सत्वरम् ।
गत्वा निवेदयेमं तु वृत्तान्तं श्वेतकेतवे ।। ६६ ।।
इति चन्द्रमसो वाक्यं श्रुत्वाहं दिवमुत्पतन् ।
१९त्वरितप्रसूतः कंचिद्वैमानिकमलङ्घयम् ॥ ६७ ।।

ख. १७. 'अत्र' ख. १८. 'देहमेतस्य' क. १९. 'स्वरितं प्रस्थितः' ख.१. 'ततो' ख. २. 'ततो' ख. ३. 'उत्पत्य' ख. ४. 'अहम्' ख. ५. 'उत्सृज्य'

ख. ६. 'अनन्तरं' ख. ७.'तवात्मजः' ख. ८. हेमकूटं' ख. ९. 'यथाकालमतः'ख. १०. 'संपन्न' क. ११. 'चलत्प्राणो' ख. १२. 'यथैव' ख.१३. 'इह' ख. १४. 'मद्वदेवेत्य-इवाभवत्' इति ख-पुस्तके त्रुटितम्. १५. 'तस्मतैष' ख. १६. 'भवति स्फुटम्'