पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४
काव्यमाला ।

अनेन हि पुनर्लब्धनिरपायस्थिरायुषा ।
गाढकण्ठग्रहानन्दः कादम्बर्याः करिष्यते ॥ ४६॥
भक्त्योरयमेवास्तु १चित्तसंप्रत्ययो दृढः ।
नस्प्रक्ष्यति २विकारो यदेनं भूतस्वभावजः ॥ १७ ॥
इत्युक्त्वा ज्योतिषा तेन सहसैव तिरोदधे ।
सविस्मयस्तदा चाभूदखिलः कन्यकाजनः ॥ १८ ॥
पत्रलेखा च३ तेनैव ज्योतिषो वचनेन ४सा ।
लब्धसंज्ञा५ समुत्थाय गत्वा च६ त्वरितैः पदैः ।। ४९ ॥
तमिन्द्रायुधनामानमश्वमादाय७ केसरात् ।
तेनैव ८संहितागाधमविशन्मध्यमम्भसः ॥ ५० ॥
शङ्कितेव च९ तां वेगयातां तरलिकान्वगात् ।
सा ददर्श पयोमध्यादुद्गच्छन्तं कपिञ्जलम् ।। ५१ ॥
प्रसृत्य १०व्याचचक्षे ह यथालोकितमद्भुतम् ।
तेनापि विस्मयस्तासां ११कन्यानां ववृधेतराम् ।। ५२॥
अथ बिभ्रज्जटास्तन्वीः १२स्रुताम्बुकणदन्तुराः।
१३जलार्द्रवल्कलस्ताभिरदृश्यत कपिञ्जलः ।। ५३ ॥
स्वयमेवोपसृत्यासौ१४ महाश्वेतामभाषत ।
राजपुत्र्यपि नामार्थं प्रत्यभिज्ञायते जनः ॥ ५४ ।।
अहं कपिञ्जलस्तस्य वयस्सो दयितस्य ते ।
चिरागमनदौरात्म्यादुपालभ्योऽस्मि न१५ त्वया ॥ ५५ ॥
कादम्बर्या त्वया चैताः१६ श्रुताश्चन्द्रमसो गिरः।
मदीयमपि वृत्तान्तमधुना शृणुतं युवाम् ॥५६॥

१. 'चित्ते' ख. २. 'विकारोऽयं यदेनं भूतभावनः' ख. ३.'तु' ख. ४.'च'ख.

५. 'लब्ध्वा चैतन्यमुत्थाय' ख. ६. 'द्रुततरैः' ख. ७. 'आरुह्य केसरैः' ख. ८. 'सहसागाधं प्रविष्टा' ख. ९. 'अथ' ख. १०.'च' ख. ११. 'अवर्धततरां ततः' ख. १२. 'च्युताम्बुकणविप्रुषः' ख. १३. 'स्नानार्द्र' स. १४. 'उपविश्याय' ख. १५. 'च'ख. १६. 'इमाः' ख.