पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७ सर्गः]
६३
कादम्बरीकथासारः

नित्यमेव मदुत्सङ्गलालिता नकुलाङ्गना ।
स्वाङ्के शाययितव्यासौ यथा याति न दूरतः ॥ ३५ ॥
किं१ कार्यमथवा गेहे चिन्तया दीर्घयानया ।
संपादय चितामाशु प्रज्वलज्जातवेदसम्२ ॥ ३६॥
केयूरक चिरं किं ३मामतिदीनामवेक्षसे ।
उत्तिष्ठ चिनु काष्ठानि समाहर हुताशनम् ॥ ३७ ॥
लावण्याम्बुमयो देहः क्रियते कथमग्निसात् ।
४कुमारममुमादाय पतामि वरमम्भसि ॥ ३८ ॥
कुमारे मित्रदुःखेन तत्क्षणोज्झितजीविते ।
५इयन्तमपि जीवन्ती कालं लज्जेऽहमात्मना६ ।। ३९ ॥
द्रष्टव्यासि कदेत्येवमभिधायैव मां गतः ।
सेयं चिरयतीत्येवमधुनाभिदधीत सः ॥ १० ॥
इति ७कादम्बरीं सद्यो मरणव्यवसायिनीम्८ ।
शिशिरज्योतिरालोक्य९ कम्पमान इवाभवत्१० ॥ ४१ ।।
येन दुग्धाब्धिकल्लोलप्लाव्यमान इवाभवत् ।
प्रवृत्तदन्तवीणश्च११ सकलः कन्यकाजनः ॥ १२ ॥
अथ दिव्याकृतिः कोऽपि पुरुषो १२गगनस्थितः।
गर्जेद्धनघटाधीरगम्भीरध्वनिरभ्यधात् ॥ १३ ॥
त्वं हि वत्से महाश्वेते पूर्वमाश्वासिता मया ।
१३स्थितो मदन्तिकेऽद्यापि पुण्डरीकस्तव प्रियः ॥ ४०॥
चन्द्रापीडस्त्वयं कंचित्कालं १४निद्रायमाणवत् ।
अत्रैवाविचलत्कान्तिरास्तां कादम्बरीप्रियः ॥ ४५ ॥

१. 'कृतं मे गृहकारुण्यचिन्तया' ख. २. 'वेदसः'ख. ३. 'दीनां दीनमिवेक्षसे'

ख.४, 'कुमारस्य प्रसादाय' ख. ५. 'इयतीमपि जीवन्ती' ख. ६.'आत्मन:' ख. ७. 'कादम्बरी' ख. ८.'व्यवसायिनी' ख. ९. 'अप्याशु' ख. १०.'सदभूत्' ख. ११. 'तु' ख. १२. 'गगने' ख. १३. 'मदन्तिके स्थितः' ख. १४. 'सुप्त इव स्फुटम्' ख.