पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७ सर्गः]
६१
कादम्बरीकथासारः

आसाद्य च तमुद्देशं करुणं रोदनध्वनिम् ।
वनान्तकंदरोद्भूतप्रतिशब्दमथाशृणोत् ॥ १२ ॥
मन्ये सैव महाश्वेतावर्त्मनीयमुपस्थिता ।
इत्यसौ शङ्कमानेव विवेश द्रुतमाश्रमम् ॥ १३ ॥
ततः प्रविश्य सापश्यत्प्राणनाथं तथास्थितम् ।
महाश्वेतां १च तामार्तनिनादं रुदतीं भृशम् ॥ १४ ॥
२तामुद्वीक्ष्य महाश्वेतां विकसच्छोकविह्वला ।
नितान्तताडितोरस्कं३ रुदती मोहमागमत् ॥ १५ ॥
पत्रलेखापि तद्रूपचन्द्रापीडविलोकिनी ।
मुमोच४ सहसा प्रज्ञां निपतन्ती शिलातले ॥ १६ ॥
कादम्बर्या ५तु धैर्येण पृष्टा तरलिका तदा ।
आचचक्षे यथावृत्तं सर्वं ६तन्मरणक्रमम् ॥ १७ ॥
तदाकर्ण्य विहायैव वैक्लव्यं स्त्रीजनोचितम् ।
७लब्धसंज्ञां महाश्वेतां मदलेखां च ८सावदत् ।। १८ ।।
संततस्थूलधारेण चिरात्प्रभृति रोहता।
खिन्नाहमधुनानेन९ रोदनेन गरीयसा ॥ १९ ॥
यथायोग्येन गच्छामि नहि शक्नोमि रोदितुम् ।
१०सखि मे दर्शितः पन्था नाथेनैव महात्मना ॥ २०॥
अयं सुहृद्वियोगेन नारोदीद्विललाप वा ।
प्राणानेव प्रियानौज्झीत्स पन्थाः क्व गतो मम ॥ २१ ।।
युक्तं सखि महाश्वेते तव ११प्राणितुमीदृशम् ।
जीविता देवताभिस्त्वं पुनस्तत्संगमाशया ॥ २२ ॥
अहं सर्वप्रकारं१२ तु विधिभग्नमनोरथा ।
करोमि दुर्भगैः प्राणैः किं कल्याणबहिष्कृता ॥ २३ ॥

१. 'तु'ख. २. 'महाश्वेतां तु सा वीक्ष्य विकसच्छोकविह्वलाम्' ख. ३. 'उरस्का'

ख. ४. 'मुमुचे संझया सद्यः' ख. ५. 'अथ' ख. ६.'तं' ख. ७. 'लब्धसंज्ञा' ख. ८. 'साब्रवीत्' ख. ९. 'दग्घरोदनेन' ख. १०. 'स च में दर्शितोऽनेन' ख. ११. 'जीवितुं' ख. १२. 'प्रकारेण' ख.