पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
काव्यमाला ।

सप्तमः सर्गः ।

तस्मिन्नवसरे बाला कादम्बर्यपि वेधसा ।
तत्रैवानीयतानेकमायावैचित्र्यकारिणा ॥१॥
असौ हि पत्रलेखाया मुखात्केयूरकस्य च ।
असंशयं१ समायातं चन्द्रापीडमबुध्यत२ ॥ २ ॥
ततः सकलविस्रम्भयोग्यं विगतयन्त्रणम् ।
महाश्वेताश्रमं३ प्राप्तं प्रत्युद्गन्तुमियेष तम् ॥ ३ ॥
वैशम्पायनविध्वंसवृत्तान्तसमनन्तरम् ।
चन्द्रापीडमनःपीडां क्यस्यविरहोद्भवाम् ॥ ४ ॥
शङ्कमाना महाश्वेता तत्समाश्वासकारणम् ।
कादम्बरीं परिज्ञाय४ तदागमनसत्वरा ॥ ५॥
५तस्यास्तरलिकां गेहं शीघ्रमागम्यतामिति ।
संदिश्य प्राहिणोत्सा ६च तूर्णं गत्वा तथावदत् ॥६॥ (तिलकम्)
जातोत्साहा महाश्वेतासंदेशेन ७भरीयसीम् ।
गमनोत्कलिकां दध्रे बुद्धौ कादम्बरी ततः ॥ ७ ॥
ताम्बूलपटवासादिसंविधानविदग्धया८ ।
हृदयप्रख्यया सख्या सहिता मदलेखया ॥८॥
पत्रलेखां पुरस्कृत्य प्रियचर्चाविचक्षणाम्९ ।
केयूरकं१० च तत्रैव दिने तां भुवमाययौ ॥ ९ ॥
आयान्त्याश्च तदा तस्या दुर्निमित्तपरम्परा ।
प्रादुर्बभूव बालाया हृदयोत्कम्पकारिणी ॥ १० ॥
महाश्वेताश्रमोपान्तमापदस्तं गते रवौ ।
उदिते च निशानाथे संतप्तकरुणाहृदे ॥ ११ ॥

१. 'मुक्तासंशयमायान्तं' ख. २. 'व्यबुध्यत' ख. ३. 'आश्रमोप्रान्तं' ख. ४. 'समर्थ्याथ तदायन' ख. ५. 'सखीं' ख. ६. 'अथ' ख. ७.'गरीयसा' ख. ८.'संविदानविधिक्षया' ख. ९.'चर्या' ख. १०. 'केयूरकोऽपि' ख.