पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६ सर्गः]
५९
कादम्बरीकथासारः

ततो धिगिति सक्रोधमभिवाय कमण्डलोः ।
जलमुद्धृत्य शप्तोऽसौ मयानुध्याय देवताः ॥ १०२ ॥
शुकवन्मुखरागेण वक्तुमेवासि१ शिक्षितः ।
गच्छ दूर दुराचार शुक एव भविष्यसि ॥ १०३ ॥
शापेन तेन महता मदनाग्निना वा
जन्मान्तरोपचितदुष्कृतकर्मणा वा ।
चित्रेण वा भगवतश्चरितेन धातुः
प्राणानसावुदसृजन्निपपात चोर्व्याम् ॥ १० ॥
आक्रन्दतः परिजनात्सशुचोऽपरेद्युर्ज्ञातो२
मया स शुकनाससुतः सखा ते ।
तत्पश्य मां प्रियवयस्यवियोगहेतु-
मस्तत्रपामकरुणां प्रखलामभव्याम्३ ॥ १०५ ।।
इति श्रुत्वा भिन्नः प्रसममिव शूलाग्रशिखया
कदा त्वां पश्येयं कमलमुखि कादम्बरि पुनः ।
४वदन्नेवं शोकस्फुटितहृदयस्तत्क्षणमसू-
ञ्जहच्चन्द्रापीडस्तरुरिव पपात क्षितितले ॥ १०६ ॥
ततो ५भुग्नग्रीवं मुकुलितसितापाङ्गनयनं
प्रभां तन्वीं दीनामिव विदधतं दिक्षु शनकैः ।
क्षितौ विसस्ताङ्गं पतितममुमालोक्य विवशा
महाश्वेता सद्यः कथमपि न याति स्म दलशः ॥ १०७ ।।
द्रष्टुं दीनामिव वसुमतीमक्षमस्तेन शून्यां
कुर्वन्नुद्यद्विरहकरुणाक्रन्दिनश्चक्रवाकान्६ ।
अब्रह्मण्यध्वनिमिव करैरूर्ध्वशाखैर्विमुञ्च-
न्नस्तं तिग्मद्युतिरपि ततः क्षामधामा जगाम ॥ १०८ ॥
इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
षष्ठः सर्गः।

१. 'एषोऽसि' ख. २. 'अथ सोऽपरेद्युः' ख. ३. 'अभाग्याम्' ख. ४. 'क्वचिन्नैवं'

ख. ५. 'भग्नग्रीवं' क. ६. 'उद्यन्' क.