पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
कादम्बरीकथासारः

पुरुहूतपुरस्पर्धिविभवा भूषणं भुवः ।
बभूव विदिशानाम पुरी वेत्रवतीतटे ॥ १४ ॥
या पुण्यकर्मिणां तेजःशालिनां द्यौरिवास्पदम् ।
रेजे २रत्नगृहज्योतिर्जालैरिन्द्रायुधप्रभैः ॥ १५ ॥ (३युग्मम्)
तस्यां निजभुजोद्योगविजितारातिमण्डलः ।
आखण्डल इव श्रीमान्राजा शूद्रक इत्यभूत् ॥ १६ ॥
अष्टानां लोकपालानां रूपं बिभ्रदपि प्रजाः ।
शश्वदानन्दयंस्ताभिश्चन्द्रमा इत्यवेदि यः ॥ १७ ॥ (४युग्मम् )
स मेदिनीं विनिर्जित्य ५चतुरम्भोधिमेखलाम् ।
६सचिवार्पिततद्भारस्तस्यामास्त यथासुखम् ॥ १८ ॥
७तेनानुद्वेजितजनैरर्थधर्माविरोधिभिः ।
८विनोदैरत्यनीयन्त नवे वयसि वासराः ॥ १९ ॥
तस्य चानन्यलभ्यानां सुखानां पारदृश्वनः ।
यूनोऽपि सुरतक्रीडापराङ्मुखमभून्मनः ॥ २० ॥
प्रयत्नेनापि नावापि सा योषिद्विषमेषुणा ।
हर्तुं शशाक या तस्य हृदयं चक्षुरेव वा ॥ २१ ॥
अथ बाह्याङ्गणस्थानवर्तिनं तं कदाचन ।
प्रसृत्य ९प्रणयप्रह्वा प्रतीहारी व्यजिज्ञपत् ॥ २२ ॥
दूरादुपायनीकृत्य शुकमाश्चर्यचेष्टितम् ।
चण्डालदारिका काचिदागता दर्शनार्थिनी ॥ २३ ॥
श्रुत्वा क्षणं परामृश्य मुखमालोक्य १०मन्त्रिणाम् ।
समादिदेश तां राजा को दोषः प्रविशत्विति ॥ २४ ॥

१. 'विभावा' क. 'पुरुहूत' इत्याद्यर्धश्लोकः ख-पुस्तके, पण्डितपत्रे (काशीविद्यासुधानिधौ) च त्रुटितः. २. 'बृहज्ज्योति-' क. ३. ख-पुस्तके नास्ति. ४. ख-पुस्तके

नास्ति. ५. 'चतुर्जलधि-' क. ६. 'आस्ते' ख. ७. 'अन्योन्यमविरोधिभिः' ख, ८. 'अभ्यनीयन्त' क. ९. "विनयप्रह्वः प्रतीहारो' क. १०. 'मन्त्रिणःख.