पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
काव्यमाला ।

तत्र क्षणमिव स्थित्वा स्वयं पृष्ट्वा१ बलाहकम् ।
अधिक्षिपन्निव प्राह चन्द्रापीडं क्षितीश्वरः ॥ ६७ ।।
नूनमुत्पादितो मन्युरविनीत२ त्वयास्य सः ।
येनान्तःस्फुरता सोऽद्य त्वां विहाय वनं श्रितः३ ॥ ६८॥
वियुक्तौ न पुरा दृष्टौ युवां क्षणमपि क्वचित् ।
किं जातमधुना येन त्वं गृहे स तपोवने ॥ ६९ ॥
विना नहि निमित्तेन शक्या सोढुं गरीयसी ।
मातापितृसुहृद्बन्धुदेशवित्तवियोगिता ॥ ७० ॥
इत्युक्तवति भूपाले शुकनासस्ततः४ परम् ।
अन्तः स्फुरितशोकोऽपि स्तम्भितक्षोममभ्यधात् ॥ ७१॥
किमेतदविचार्यैव वस्तुतत्त्वमतर्कयत् ।
शङ्कानुमानमात्रेण कृतधीरपि५ भाषसे ।। ७२ ।।
अलातवृष्टिरिन्दोर्वा क्षीराद्वा ६कण्टकोद्गमः ।
तस्य मन्युः कुमाराद्वा ७कस्य संभावनास्पदम् ॥ ७३ ॥
पापः स एव दुर्जातः सुचिरं पाठितः शुकः ।
८यत्रामृतरसोऽप्युप्तः फलितः कालकूटवत् ।। ७४ ॥
स त्वं कुमार सर्घस्याः पृथिव्या एकजीवितम् ।
दुरात्मनो न तस्यार्थे शोकमुद्वोढुमर्हसि ॥ ७५ ।।
तसिम्विरतवाक्ये तु पतित्वा पादयोः पितुः ।
साश्रुकण्ठमथोवाच चन्द्रापीडः कृताञ्जलिः ॥ ७६ ।।
तात९ शङ्कितदोषस्य प्रायश्चित्तमिदं मम ।
गत्वा तमानयामीह१० त्वमनुज्ञातुमर्हसि ॥ ७७ ।।
तमागतमिहालोक्य पृष्ट्वा ११शपथपूर्वकम् ।
ततो गुणं वा दोषं वा क्रमेण१२ मम वेत्स्यसि ।।७८ ॥

१. 'दृष्ट्वा' क. २. 'त्वया कोऽप्यस्य तादृशः' ख. ३. 'गतः' ख. ४. 'त्वनन्तरम्'

खं. ५. 'हृतधीरिव' ख. ६. 'कण्टको मुहुः' क. ७. 'तव'ख. ८. 'यथा तरुः सुधासिक्तः' ख. ५. 'दोषप्रायश्चित्तमिदं मम साधनमेव तत्' ख. १०. 'इति तदमु-' ११. 'शिरसि चुम्बितम्' ख. १२. 'मम तातोऽवमोत्स्यते' ख.