पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४
काव्यमाला ।

न राक्षसो न १चाण्डालो न किरातश्च यद्यहम् ।
अच्छोदसरसस्तीरं प्राप्तं मां वेत्थ सर्वथा ॥ ४६ ॥
अन्येद्युरिति संदिश्य सहितं पत्रलेखया ।
केयूरकमसौ २रत्नैः प्राहिणोत्कृतमण्डनम् ।। ४७ ॥
तयोस्तु गतयोरास्त सुतरां खिन्नमानसः ।
३गमनाय धिया किंचिन्निमित्तमनुसंदघत् ॥ ४८ ॥
शुश्रावाथ नियुक्तेभ्यः स्कन्धावारमुपागतम् ।
योजनद्वयमात्रं४ च पुनः कृतनिवेशनम् ॥ ४९ ॥
वैशम्पायनतो लप्स्ये किंचित्कारणमित्यसौ ।
५प्रेत्युद्गन्तुमगादेनं कटकं पितुराज्ञया ॥ ५० ॥
तत्र राजकमालोक्य बलाहकनिवेदितम् ।
क्व वैशम्पायनावास इति सेनान्यमभ्यधात् ।। ५१ ।।
बलाहकस्त्वधोदृष्टिरुल्लिखन्मेदिनीं मुहुः ।
न वैशम्पायनोऽत्रेति६ सन्नकण्ठमभाषत ॥ ५२ ॥
ततोऽवतीर्य तुरगादुपविश्य तरोरधः ।
हा वयस्येति विलपन्प्रावर्तत स रोदितुम् ॥ ५३ ।।
बलाहको निपत्याथ चन्द्रापीडस्य पादयोः ।
देव मैवं कृथाः सोऽस्ति७ जीवन्नेवेत्यवोचत ॥ ५४ ॥
चन्द्रापीडस्तु तं प्राह नैव८ श्रद्धीयते मया ।
न९ वैशम्पायनो जीवन्मुहूर्तं मां विमुञ्चति ।। ५५ ।।
इति संभ्रान्तचित्तं१० तं पुनराह बलाहकः ।
श्रूयतां देव तद्वृत्तं११ यथासाविह नागतः ॥ ५६ ।।

१. 'मातङ्गो' ख. २. 'अग्रे' ख.३. तांस्तानभिलषन्बुध्द्या हेतून्गमनसाधकान्' ख.

४. 'मात्रेण पुरः' ख. ५. 'प्रत्युद्गतं' ख. ६. 'अस्ति' ख. ७. 'शोचं जीवन्नस्तीत्यभाषत ख. ८.'नेदं' ख. ९. 'स वैशंपायनो जीवन् त्यक्त्वालंबत मामिति' ख. १०. 'उपहृतचित्तं' ख. ११. 'यद्वृत्तं तत्र प्रचलिते त्वयि' ख.