पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः
५३
कादम्बरीकथासारः

चन्द्रापीडस्तदाकर्ण्य १गतस्मृतिरिवाभवत् ।
लब्धस्मृतिश्चिरं२ दध्यौ गमने हेतुमात्मनः ॥ ३४ ॥
दिनेष्वथ३ व्यतीतेषु वक्तुं कादम्बरीदशाम् ।
आगात्केयूरकोऽप्याशु दीर्घाध्वश्रान्तवाहनः ॥ ३५ ॥
स चोज्जयिन्या विभवं प्रविशन्वीक्ष्य विस्मितः।
स्थाने ननु मनो लग्नं स्वामिन्या इत्यमन्यत ॥ ३६ ॥
प्रविश्य ददृशे तेन चन्द्रापीडः ४कृशाकृतिः ।
चक्रवाक इवैकाकी प्रियाविरविह्वलः ।। ३७ ॥
दधत्या पार्श्ववर्तिन्या चामरं पत्रलेखया।
संवीज्यमानः पर्यङ्कनिषण्णग्लानविग्रहः ॥ ३८ ॥
प्रणिपत्योपविष्टोऽसौ गाढं शिरसि पस्पृशे ।
कुर्वता कुशलप्रश्नं चन्द्रापीडेन सादरम् ॥ ३९ ॥
ततः कादम्बरीवार्तो पृष्टः केयूरकोऽमुना ।
पत्रलेखामुखं वीक्ष्य संक्षिप्तमिदमब्रवीत् ॥ ४० ॥
उक्तोऽसि नानया किंचिदुक्तश्चेत्किमिह ६स्थितः ।
उक्तश्चेह स्थितश्चासि कृतमागमनेन मे ॥ ४१ ।।
तथापि वद संदेशमिति तेन तु चोदितः७ ।
पुनः केयूरकः प्राह नहि विज्ञप्यसे मृषा ॥ ४२ ॥
कथं जीवत्सु युष्मासु विरहो हन्ति मामिति ।
तस्याः साकूतया दृष्ट्या विसृष्टोऽस्मि न तद्गिरा ।।४३।।
किमत्र बहुनोक्तेन तथास्या विरहव्यथा ।
अद्यापि जीवतीत्यत्र यथा दोलायते मनः ॥ ४४ ॥
तत्कथाभिस्तथा स्थित्वा तस्मिन्नथ दिने चिरम् ।
चन्द्रापीडः सुखावासं केयूरकमकारयत् ॥ ४५ ॥

१. 'जात' ख. २. 'स्थितिः' ख. ३. 'अन्येषु जातेषु' ख. ४. 'यथाक्रमम्' ख.

५. 'पर्यङ्के निषण्णः क्षाम' ख. ६. 'आस्थितः'ख. ७. 'नोदितः' ख. 'अथाह' ख. ९. 'विज्ञायसे' ख. १०. 'एवं' ख.