पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः
४९
कादम्बरीकथासारः

१तथा तत्र चिरं स्थित्वा तां तथावशवर्तिनीम्२ ।
भङ्गीभणितिभिर्व्यक्तमावेद्य ३निजमाशयम् ॥ १०२ ।।
तदभ्यर्थनयादिश्य पत्रलेखां तदन्तिके।
केयूरकद्वितीयोऽसौ जगाम कटकं पुनः ।। १०३ ।।
४तत्रोज्जयिन्याः संप्राप्तं ५पूर्वेद्युर्लेखहारकम् ।
अवलोक्य तदानीं तं लेखं स्वयमवाचयत् ॥ १०४ ॥
पितुराज्ञां ततो ज्ञात्वा शीघ्रागमनशंसिनीम् ।
केयूरककरे न्यस्य तं लेखं कूणितेक्षणः ॥ १०५ ॥
तदर्थमथ संमन्त्र्य सह मन्त्रिसुतेन सः।
एवमेतदिति ६ध्यायन्प्रस्थानस्थैर्यमग्रहीत् ॥ १०६ ॥
सत्यं वच्मि भवत्प्रसादरसिकं चेतो ममैतत्पदं७
गन्तुं नेच्छति किंतु शासनमिदं नोल्लङ्घनीयं गुरोः ।
मन्युः संप्रति सह्यतां पुनरिहागन्तास्मि कादम्बरीं
संदिश्येति सबाष्पगद्गदमसौ केयूरकं प्राहिणोत् ॥ १०७ ॥
वैशम्पायनमभ्यभाषत भवान्संवाहयन्वाहिनीं
पश्चादेष्यति यामि सत्वरमहं स्वल्पैरितो वाजिभिः ।
निश्चित्येति ८तदा प्रयाणपटहे दत्ते प्रतस्थे ततो
गत्वा किंचन चण्डिकाश्रमतटीमध्यास्त९ तस्मिन्दिने ॥ १०८ ॥
तत्रोद्धतद्रविडधार्मिकरूपवेष-
भाषातपश्चरणसिद्धिकथाविनोदैः१० ।
नीत्वा निशां सततमस्खलितप्रयाणैः
११स्वल्पैर्दिनस्त्वरितमुज्जयिनीमवाप ॥ १०९ ।।
इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
पञ्चमः सर्गः।

१. 'तत्रतत्र' ख. २. 'वर्तिनम्' ख.३. 'निरगादयम्' क. ४. 'ततोज्जयिन्याः'

ख. ५. 'अन्येद्युः'ख. ६. 'ध्यात्वा प्रस्थाने' क. ७. 'परं' ख. ८.'तथा' क. १. 'मही' ख. १०.'तपःप्रशमसिद्ध' क. ११.'अल्पैः'क.