पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः
४७
कादम्बरीकथासारः

किं १त्वसौ शेषहारोऽस्यास्तुल्यं मण्डनमाकृतेः।
उरस्वनिच्छतोऽप्यस्य २तूर्णमामुच्यतां त्वया ॥ ७९ ।।
मदलेखा गृहीत्वा तं हारं गत्वा तदन्तिके ।
तथोवाच यथा तेन३ प्रत्युक्ता सा न किंचन ॥ ८० ॥
आमुच्यत ततः कण्ठे हारोऽस्य मदलेखया ।
शरदिन्दुकरोदारप्रभापूरितदिङ्मुखः४ ।। ८१ ॥
चन्द्रापीडश्च हारेण रराज कृतमण्डनः ।
पूर्णेन्दुरिव नक्षत्रकलापपरिवारितः ।। ८२ ॥
कादम्बरी चिरं त्वेनमवलोक्य निशागमे ।
प्रासादशिखरात्तस्मान्मन्दमन्दमवातरत्५ ।। ८३ ॥
उत्थाय चन्द्रापीडोऽथ कृतसंध्याविधिस्ततः ।
अवालम्बत देहेन शय्यां चिन्तां च चेतसा ।। ८१ ॥
किं स्युर्गन्धर्वकन्याया विलासाः सहजा इमे ।
उतेमं जनमुद्दिश्य बालां नर्तयति स्मरः ।। ८५ ॥
दृष्टिर्निपुणदूतीव ८यथा त्वस्या विचेष्टते ।
९तथा संभावनाहीयं मम चेतसि वर्तते ।। ८६ ॥
अवैमि पुष्पितस्तावत्किंनरानुसृतिक्रमः ।
स कालपरिणामेन न जाने किं फलिष्यति ।। ८७ ॥
अथवा यौवनोन्मादकृत एष११ मम भ्रमः ।
क मनुष्यः क्व गन्धर्व इति किं तेन संगतम् ॥ ८८॥
आत्मसंभावनां चेयमास्तामसदृशक्रमा ।
कालेन व्यज्यते सर्वं कथं च१३ मम सैनिकाः ॥ ८९ ॥

१. 'पुनः' क. २. 'त्वरितं प्रथ्यतां' क. ३. 'अनेन' ख. ४. 'प्लावित-' ख.

५. 'खेदमन्दं' क. ६. 'युवालम्बत' क. ७. 'अथेमं' ख. ८. 'तथा तस्या व्यचेष्टत' क. ९. 'यथा संभावनान्यैव' क. १०. 'दृश्यते पुष्पितस्तावत्किमनङ्ग इति द्रुमः' ख. ११. 'एव' ख. १२. 'क्व मनुष्याः क्व गन्धर्वा अत किं केन' ख. १३. 'तु' क.