पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
काव्यमाला ।

क्रीडापर्वतके कृत्वा सुतारमणिमन्दिरे ।
१चन्द्रापीडं सुखासीनमायातं २मातुरन्तिकम् ॥ ६८ ॥
तत्राध्यासितपर्यङ्कं केयूरकपुरःसराः ।
मुख्याः कादम्बरीसख्यश्चन्द्रापीडं सिषेविरे ॥६९ ।।
स्नानानुलेपनाहारक्रियाः स३ तदुपाहृतैः ।
चक्रेऽमर्त्यपुरप्राप्यैर्विभवैरुपपादिताः४ ॥ ७० ॥
अथ मन्दप्रभे भानौ भेजे कादम्बरी निजम् ।
मदलेखाद्वितीयैव महाप्रासादमस्तकम् ॥ ७१ ॥
चन्द्रापीडं च तत्रस्था क्रीडापर्वतवर्तिनम् ।
निरवर्णयदाकर्णप्रसृतापाङ्गया दृशा ॥ ७२ ॥
चन्द्रापीडे ५तदा तस्याः कटाक्षास्तीक्ष्णकोटयः ।
समं निपेतुस्तस्यां६ च कुसुमायुधसायकाः ।। ७३ ।।
कटाक्षैरुपनीतं च क्षिप्रं७ कृतसमागमैः ।
तल्लावण्यं पिबन्तीव मदलेखामुवाच सा ॥ ७४ ॥
न मया मदनो नाम कथास्वपि ८सखि श्रुतः ।
अद्य प्रत्यक्षतो दृष्टः स चन्द्रापीडविग्रहः ॥ ७५ ॥
न महाश्वेतया किंचिदुक्तं प्रकृतवस्तुनि ।
५अथ चेहानयन्त्यामुं१० सर्वमुक्तमनक्षरम् ।। ७६ ।।
अपि नाम विकारो११ मे तदानीं लक्षितस्तया ।
किं वा न १२लक्षयेदेषा दृष्टमन्मथविक्रिया१३ ।। ७७ ॥
अद्यापि निजसंकल्पविरुद्धां विक्रियामिमाम्१४ ।
मनसः संहराम्येव स्थूलामपि यथातथा ।। ७८ ।।

१. 'चन्द्रापीडसुखावासमायाता' ख. २. 'अन्तिके' ख. ३. 'च तदुपाहृताः' ख.

४. 'शक्रपुरात्प्राप्तैः' ख. ५. 'कटाक्षाश्च तदीयाः' क.६. 'अस्यां' क. ७. 'तीव्रं' ख. ८.'स विश्रुत:' ख. ९. 'अथवा' ख.१०. 'तु' ख. ११. 'तदा वासौ प्रकारो' क. १२. 'लक्षयति' ख.१३. 'विभ्रमा' ख.१४.'प्रक्रियां' क.