पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः
४५
कादम्बरीकथासारः

द्वारेण विवृतेनाथ तेनैव निजमायया ।
मदनोऽन्तः प्रविश्यास्या बबन्ध हृदये पदम् ॥ ५७ ॥
रत्नपीठोपविष्टे तु चन्द्रापीडे तदन्तिके ।
२अध्यासातां कथामेकां हंसचित्ररथात्मजे ।। ५८ ॥
लज्जास्तिमितमासीनामथ३ कादम्बरीं बलात् ।
महाश्वेता गृहाचारं चन्द्रापीडे न्यधापयत् ॥ ५९॥
शरीरनिर्विशेषास्याः कादम्बर्याः प्रिया सखी ।
मदलेखाभिधानास्य चरणक्षालनं व्यधात् ।। ६०॥
कादम्बरी तु सखेदप्रकम्पिकरपल्लवा५ ।
ताम्बूलच्छद्मनात्मानं स्वयमस्मै न्यवेदयत् ॥ ६१॥
तदङ्गुलितलस्पर्शभावुर्यहृतमानसा६ ।
नालक्षयत सा रत्नवलयं स्खलितं करात् ॥ २ ॥
चन्द्रापीडोऽपि तत्पाणिसंस्पर्शसुखसंपदा८ ।
तदा त्रिभुवनाधीशमिवात्मानममन्यत ।। ६३ ।।
ततस्तूष्णीमुपासीने९ सर्वस्मिन्कन्यकाजने ।
शुकसारिकयोरासीत्कलहः केलिकारणम् ।। ६४ ॥
तत्प्रसङ्गे च सोत्प्रसं तयोः कलहवृद्धये ।
चन्द्रापीडोऽब्रवीद्येन सर्वा १२जहसुरङ्गनाः ॥६५॥
ताश्च दन्तप्रभाधौतदिङ्मुखा मधुरस्वराः ।
चन्द्रापीडगिरो जह्नुस्तरां कादम्बरीमनः ॥ ६६ ।।
क्षणमात्रे व्यतीतेऽथ प्रविश्य प्राह कञ्चुकी।
राजपुत्र्यौ युवां द्रष्टुं देवी निर्विघ्नमिच्छति ॥ ६७ ॥

१. 'च' क. २. 'अध्यासिषातामेकत्र' ख.३.'साथ' क.४. 'व्यदापयत्' ख.

५. 'प्रकम्प' ख. ६. 'विश्रान्तिहृत' क. ७. 'प्रच्युतं' ख. ८. 'तलसंस्पर्शमात्रया' ख. ९. 'तूष्णीमथ तदासीने' ख. १०. 'केलिः कलहकारणम्' ख. ११. 'सोत्प्राशं' क. १२. 'तुतुधुः' ख. १३. 'तदा' ख.१४. 'क्षणं प्रविश्य तत्स्थानं मधुरं प्राह' ख. का०५