पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
काव्यमाला ।

देहप्रभावितानेन रत्नकान्त्यभिभाविना ।
१प्रतप्तकनकोद्द्योतधौता विदधतीं दिशः ॥ ४५ ॥
तटस्थमप्यार्द्रयतः २सदाचारमभिन्दतः ।
स्थितां नवस्य लावण्यसिन्धोरन्तस्तरङ्गिणः३ ।। ४६ ॥
४सर्वोपमेयभावानामुपमानत्वमागताम् ।
कादम्बरीं ददर्शासौ दूरविस्फारितेक्षणः ॥ ४७ ॥ (५चक्कलकम्)
परातिशयकोटिस्थरूपलावण्यसंपदम्६ ।
तस्यां निरूपयन्नन्तरचिन्तयदथ७ क्षणम् ॥ ४८ ॥
सत्यं न कश्चिदाश्चर्यनिर्माणेष्ववधिर्विधेः ।
ईदृशान्यपि रत्नानि स्रष्टं प्रभवति स्म८ यः ॥ ४९ ॥
मोघं याति हरेः कालो लक्ष्मीं वक्षसि बिभ्रतः ।
देहार्धेन ९वहन्गौरीं वञ्चितश्चन्द्रशेखरः ॥ ५० ॥
कृतमक्ष्णां सहस्रेण निर्निमेषेण वज्रिणः ।
अनन्यकर्मणा येन नित्यमेषा न दृश्यते ॥ ५१ ।।
इत्यादिचिन्तयत्यस्मिन्नथ चित्ररथात्मजा ।
१०प्रत्युद्ययौ महाश्वेतामभ्युत्थाय ससंभ्रमम् ।। ५२ ।।
महाश्वेता ११तु निःशङ्कमालिङ्ग्य स्नेहनिर्भरम् ।
तां चन्द्रापीडनिर्देशपुरःसरमभाषत ॥ ५३ ॥
अयं हि भारते वर्षे सार्वभौमस्य भूपतेः।
तारापीडस्य तनयश्चन्द्रापीड इहागतः ॥ ५४ ॥
अनेनेह प्रविष्टेन दृष्टेर्विषयवर्तिना ।
भवत्वखिलगन्धर्वकुटुम्बकमहोत्सवः ॥ ५५ ॥
अथ कादम्बरी तस्मिन्पक्ष्मोत्क्षेपविकासिनीम्१२ ।
आकर्णप्रसूतापाङ्गां चिरं १३दृशमपातयत् ॥ ५६ ।।

१. 'उत्तप्तकनकद्योत-' ख. २. 'स्वमाधारमसिंचतः' ख. ३. 'रत्नतरङ्गिणीम्'

ख. ४. 'सर्वोपमान' क. ५. 'चतुर्भिः कालापकम्' ख. ६. 'कोटिस्थां' ख. ७. 'चिन्तयामास' ख. ८.'स्वयम्' ख. ८.'दधद्'ख. १०.'प्रत्यागच्छत्' ख. ११.'अथनिःसंगं' क. १२. 'विलासिनीम्' क. १३. 'दृष्टिं' ख.