पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः
४३
कादम्बरीकथासारः

इति श्रुत्वा महाश्वेता १क्षणं निश्चललोचना ।
चिन्तयित्वा किमप्यन्तश्चन्द्रापीडमभाषत२ ॥ ३३ ॥
राजपुत्र ३तवाकारः सदाचारश्च पेशलः ।
तनोति सर्वभावेन निःस्पृहाणामपि स्पृहाम् ॥ ३४॥
कादम्बरीवचश्चेदं श्रुतं केयूरकात्त्वया ।
तत्र को वा प्रतीकारः स्वयं मद्गमनादृते ॥ ३५॥
इतो न दूरे गन्धर्वराजधानी तदद्य ताम् ।
पश्यास्मदनुरोधेन श्वो गन्तासि स्ववाहिनीम् ॥ ३६ ॥
उदात्तमधुरामेतां दर्शयन्त्या ५तवाकृतिम् ।
बहु गन्धर्वलोकस्य मयाप्युपकृतं भवेत् ॥ ३७॥
चन्द्रापीडस्तु तां प्राह बहूक्त्वा भगवत्यलम् ।
अनतिक्रमणीय मे मुनीनामपि शासनम् ॥ ३८॥
प्रावर्तत ततो गन्तुं स महाश्वेतया सह ।
पद्भ्यामेव ६नियुज्याश्वं प्रति केयूरकं दृशा ॥ ३९ ॥
केयूरकोऽग्रतो गत्वा कादम्बर्यै न्यवेदयत् ।
तस्यागमनमाकारं गुणांश्चाहितविस्मयान् ॥ १०॥
स गत्वा किंचिदध्वानं चन्द्रापीडः समासदत् ।
गन्धर्वराजनगरीमपराममरावतीम् ॥ ४१ ॥
आसाद्य राजधानीं च तुङ्गस्फटिकतोरणाम् ।
सप्त कक्षा अतिक्रम्य कन्यान्तः पुरमभ्यगात् ॥ ४२ ॥
केयूरकोपदिष्टेन वर्मनाथ प्रविश्य सः।
भास्वन्मणिमयस्तम्भं श्रीमण्डपमलोकयत् ॥ ४३ ॥
तन्मध्ये मणिपर्यङ्कमध्यासीनां महीयसा ।
रत्नाभरणचित्रेण स्त्रैणेन परिवारिताम् ॥ ४४ ॥

१. 'चिरं' ख. २. 'अवोचत' ख. ३. 'तवोदारो समाचारश्च' ख.४. 'भावेषु' क.

५. 'त्वदाकृतिम्' ख. ६. 'न्ययुङ्क्ताग्रे' क. ७. 'गत्वा कथंचिदध्वानं' ख. 4. 'कक्ष्या' क. ९. 'मरकत' ख.