पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः
४१
कादम्बरीकथासारः

अथोवाच महाश्वेता क्वासौ याति तपस्विनी ।
शृण्वत्रापि निमित्तं मे यथा २सा प्रहिता मया ॥ १० ॥
यः ३स चित्ररथो नाम गन्धर्वाधिपतिर्मया ।
वर्णितो येन देवोऽयं प्रत्यष्ठापि महेश्वरः ॥११॥
येने४ खानितमत्यच्छमच्छोदाख्यमिदं सरः ।
येन चैत्ररथं नाम कृतमेतच्च काननम् ।। १२ ।।
५तस्यामृतसमुद्भूते प्रसूताप्सरसां कुले ।
महिषी मदिरा नाम जीवितादपि वल्लभा ॥ १३ ॥
तयोः कादम्बरी नाम कन्यास्ति नवयौवना।
लक्ष्मीमुपहसन्तीव रूपलावण्यविभ्रमैः ॥१४॥
तया सह महत्प्रेम बाल्यात्प्रभृति मे तथा !
यथैकमेव जानाति जनो जीवितमावयोः ॥ १५ ॥
विदित्वा दग्धवृत्तान्तमिमं सपदि मामकम् ।
साग्रहीन्नियमं बाला वार्यमाणापि बन्धुभिः ॥१६॥
महाश्वेतास्य६ दुःखस्य यावन्न लभतेऽवधिम् ।
तावन्मया न ७कर्तव्यं पाणिग्रहणमात्मनः ॥ १७ ॥
अतो८ यथायथा तस्या यौवनश्रीर्विजृम्भते ।
९तथातथा ततो धत्ते खेदं चित्ररथः परम् ॥ १८ ॥
संदिष्टं तेन मे पुत्रि यतखावहिता तथा ।
यथेमं दुर्ग्रहग्रन्थिं विमुञ्चति तव स्वसा ॥ १९ ॥
अतस्तरलिका तत्र मया प्रकरणोचितम् ।
प्रहिता बहु संदिश्य श्वश्चागन्तेह सा पुनः ॥ २० ॥
इतीत्थं कथया नीत्वा महाश्वेताश्रमे दिनम् ।
चन्द्रापीडः प्रयातेऽस्तमर्के संध्याविधिं व्यधात् ॥२१॥

१. 'पृष्टोवाच' ख. २. 'असौ' ख. ३. 'च' ख. ४. 'येनाखानि तदत्यच्छ-'क. ५. 'यस्यामृतात्समुत्पन्ने' ख. ६. 'स्वदुःखस्या' ख. ७. 'सोढव्यं' ख. ८. 'यतो' ख. ९. 'ततस्तथा तथा खेदं धत्ते' ख.१०. 'ततः' ख. ११. 'आगत्येव' ख.