पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः
३५
कादम्बरीकथासारः


ततस्तरलिकायास्तां हस्तादादाय पट्टिकाम् ।
तस्यां तु लिखितामार्यामिमामहमवाचयम् ।। ६९ ॥
"दूरं मुक्तालतया बिससितया १विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः" ॥ ७० ॥
सा तु तैमिरिकस्येव बभूव बहुलक्षपा ।
मोहायार्याप्यनार्येव२ सुतरां मनसो मम ॥ ७१ ।।
वद तेन किमुक्तासि स किमुक्तस्त्वयापि वा।
तदन्तिके च विस्रब्धमुषितासि कियच्चिरम् ।। ७२ ॥
इत्थं तरलिकां ३तत्तदालपन्ती पुनः पुनः।
कांचिदह्नस्ततो मात्रामुन्मत्तेवात्यवाहयम् ॥ ७३ ।।
अथ प्रलम्बमानेऽर्के प्रतीहारी प्रविश्य मे ।
भर्तृदारिकया दृष्टौ यौ तौ मुनिकुमारकौ ।। ७४ ॥
तयोरन्यतरो द्वारि तिष्ठतीति न्यवेदयत् ।
शीघ्रं प्रवेशयेत्युक्ता मया तदभिशङ्कया ।। ७५ ॥
सा च प्रवेशयामास तस्य तं सहचारिणम् ।
सत्कारेणोचितेनाहं भक्त्या चैनमपूजयम् ।। ७६ ॥ (तिलकम्)
मुहूर्तमिव विश्रम्य पर्यङ्के मदुपाहृते ।
मदुत्तरीयसंमृष्टसुधौतचरणद्वयः४ ॥ ७७ ॥
दृष्टिं तरलिकायां स वक्तुकामः क्षणं ५न्यधात् ।
मया ६सोऽज्ञायि पृष्टस्तु लज्जमान इवाभ्यधात् ॥ ७८ ॥
अहं कपिञ्जलो नाम तस्य बालसुहृन्मुनेः ।
न वाक्प्रवर्तते मेऽस्मिन्ननभ्यस्त इवाध्वनि ॥ ७९ ॥
क्वायं मुनिजनः शान्तः क्व चामी रागविभ्रमाः।
तथापि व्यवसायोऽयं७ सुहृत्स्नेहवशानुगः८ ॥ ८० ।।

१. 'विप्रलभ्यमानः' क. २. 'एवं' ख. ३. 'तत्र'च' ख. ४. 'संमृष्टमाधौतचरणद्वयम्' ख. ५. 'व्यधात्' ख.६. 'स ज्ञाय' ख. ७. 'मे' ख. ८.'रुजाश्रितः' क.