पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
काव्यमाला ।

अस्पृष्टमिव कंदर्पमीशाननयनार्चिषा ।
कलङ्कविप्रुषा बिम्बमदूषितमिवैन्दवम् ॥ ३३ ॥
विरुद्धैरपि रूपस्य मेखलाजिनवल्कलैः ।
कृताधिकमनोहारिरूपातिशय विभ्रमम् ।। ३४ ।।
तेन कर्णे कृता १काचिदपूर्वतरुमञ्जरी ।
ततः प्रवृत्तमामोदं २समाघ्रातवती मुहुः ।। ३५ ॥
तं कुतोऽप्यागतं कान्तं लावण्यामृतनिर्झरम् ।
३चक्षुषा संपिबन्तीव कौतुकोत्क्षिप्तपक्ष्मणा ॥ ३६॥
रूपैकपक्षपातेन गुणदोषानपेक्षिणा ।
ततः कुसुमबाणेन नीतास्मि वशमात्मनः ।। ३७ ।।
ततोऽपसर्तुकामाहमप्रगल्भतया मुहुः ।
केनापि प्रेर्यमाणेव तदन्तिकमुपागमम्४ ।। ३८ ॥
वन्द्यो मुनिजनश्चेति५ प्रचलन्मणिकुण्डलम् ।
अकार्षं वन्दनं तस्मै तन्मुखन्यस्तलोचना ॥ ३९ ॥
ततः कृतप्रणामायां मयि सोऽपि मनोभुवः ।
पतितो गोचरे चित्रमलङ्घ्या६ भवितव्यता ॥ ४० ॥
स्मरोपदिष्टयेवाथ बुद्ध्वा तद्विकृतिं धिया ।
लब्धास्था७ तत्स्वरूपादिप्रश्नप्रागल्भ्यमागमम् ।। ४१॥
अथ पार्श्वस्थमप्राक्षमन्यं मुनिकुमारकम् ।
तुल्यतेजस्तपोवेषं तस्य सब्रह्मचारिणम् ॥ ४२ ॥
भगवन्कथ्यतां कोऽयं किमाख्यः किमिहागतः८ ।
कर्णे च निहितानेन कस्येयं मञ्जरी तरोः ॥ ४३ ॥
सोऽब्रवीत्सुरलोकेऽस्ति९ सुरासुरशिरोर्चितः ।
श्वेतकेतुरिति ख्यातो रूपेणाप्रतिमो मुनिः ॥४४॥

१. 'अपूर्वा' ख. २. 'स्रमर्धितवती' क. ३. 'चक्षुषैव पिबन्तीव' ख. ४. 'उपागता' क.

'तेन' क. ६. 'अवन्ध्या' ख. ७. 'लब्धाप्रकाशरूपादि' ख. ८. 'आगम,' ख. ९.'लोकेषु'ख.