पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः
२९
कादम्बरीकथासारः

अपि नाम स्ववृत्तान्तं १मद्वदेषापि वर्णयेत् ।
पृष्टेत्येवं२ क्षणं दध्यौ चन्द्रापीडः सकौतुकः ।। १०९ ॥
दृष्ट्वा चास्याः ३प्रशममधुरामाकृतिं भावशुद्धिं
दाक्षिण्यं च प्रकृतिसरलं४ लब्धवाक्यावकाशः।
आत्मोदन्तं नियतमखिलं वक्ष्यति प्रार्थितेयं
चन्द्रापीडः ५क्षणमथ कृतप्रश्नसंप्रत्ययोऽभूत् ॥ ११० ॥
इति श्रीविपश्चिद्वराग्रगण्याचार्यभट्टश्रीजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
तृतीयः सर्गः।

चतुर्थः सर्गः।

स तद्गुणप्रभावर्द्धिवर्धमानकुतूहलः ।
तामवोचत माधुर्यविनयोदारया गिरा ॥१॥
त्वत्प्रसादकृतेनैव प्रागल्भ्येन ६ममामुना ।
मनो भगवति प्रश्नचापले विनियुज्यते ॥ २ ॥
न मादृशदृशां भूमिरियमाश्चर्यसंततिः ।
तदाख्यानप्रसादेन जनोऽयमनुगृह्यताम् ।। ३ ।।
कतमो मुनिगन्धर्वसिद्धविद्याधरादिषु ।
पुण्येन जन्मना वंशो भगवत्या विभूषितः ॥ ४ ॥
पञ्चभूतात्मकं चेदं धत्ते धवलतां वपुः ।
कथं कामपि दिग्दन्तिदन्तकान्त्यतिशायिनीम् ॥ ५॥
नवे वयसि किं चातितीव्रवैराग्यकारणम् ।
येनारण्यनिवासादि दुःखमीदृग्विषह्यते ॥ ६ ॥
इति तस्मिन्वदत्येव स्थूलाश्रुकणवर्षिणी।
रुरोद वल्कलच्छन्नवदना दिव्यकन्यका ॥ ७ ॥
अकम्पत मनश्चैनां चन्द्रापीडस्य पश्यतः।
इयमप्याकृतिर्नाम ९दुःखैर्यदभिभूयते ॥ ८॥

१. 'महादेशेन' ख. २. 'पृष्टेति क्षणमादध्यौ' ख. ३. 'प्रकृति-'ख. ४.'सरसं'

ख. ५. 'क्षणकृतरतिः' ख. ६. 'अधुना मम' क. ७. 'भगवती' ख. ८.'वासो' ख. ९. 'द्वन्द्वैः' ख.