पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
काव्यमाला

नान्तर्धानमियं गच्छेन्न वा गगनमुत्पतेत् ।
न मौनमवलम्बेत मर्त्यसंदर्शनेन वा ॥ ९ ॥
इत्यादि चिन्तयन्नास्त १स्तम्भाच्छादितविग्रहः ।
गीतावसानसमयप्रतीक्षणपरायणः ॥ ९८ । (तिलकम् )
२साथ गीतं समापय्य विनिधाय ३च वल्लकीम् ।
प्रणम्य चन्द्रचूडाय चन्द्रापीडमभाषत ।। ९९ ॥
अतिथे खागतं ४तेऽस्तु सौम्य विश्रम्यतामिह५ ।
प्राप्तोऽसि स्वामिमां भूमिमित आगम्यतामिति ।। १०० ॥
चन्द्रापीडस्तदाकर्ण्य बह्वात्मानममन्यत ।
व्रजन्तीमनु वव्राज देवतावत्प्रणम्य ताम् ॥ १०१॥
विवेश नातिदूरेऽथ६ ७निजाश्रमगुहामसौ ।
स्थिताजिनकुशालाबुपात्रदण्डकमण्डलुम् ।। १०२ ।।
तत्र दर्भासनासीनमुपविष्टा मृगाजिने ।
पप्रच्छ चन्द्रापीडं सा स्वरूपागमनादिकम् ॥ १०३ ।।
स तु सर्व यथावृत्तमाचचक्षे सविस्तरम् ।
सा च८ विज्ञातवृत्तान्ता निर्जगाम ततो९ बहिः ॥ १०४ ।।
गृहीतभिक्षापात्रा च क्षणमास्त तरोरधः ।
आपूर्यत स्वयं शीर्णैः फलैस्तदमृतोपमैः ॥ १०५ ॥
ततस्तदुपयोगाय चन्द्रापीडं न्ययुङ्क्त सा ।
१०अन्वतिष्ठद्वचस्तस्याः स च विस्मयमानधीः ।। १०६ ।।
तस्मिन्नथ कृताहारे गिरिप्रस्रवणान्तिकम्११ ।
गत्वा सापि फलहारप्रक्रियामात्रमाचरत् ।। १०७ ॥
आगत्य च पुनस्तस्मिन्नुपविष्टा मृगाजिने ।
तारापीडोज्जयिन्यादिकथया क्षणमास्त सा ।। १०८॥

१. 'स्तम्भावासित-'ख. २. 'सा तु' ख. ३.'तु' ख. ४. 'तुभ्यं' ख. ५. 'इति'

ख. ६.'च' क. ७. 'निजासन-'ख. ८. 'तु विज्ञाय वृत्तान्तं' ख. ९. 'बहिर्मुहुः' ख.१० 'खादति स्माज्ञया तस्या' ख. ११. 'अन्तिके' ख.