पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ सर्गः]
२७
कादम्बरीकथासारः

स्वयं सस्नौ पपौ वारि बुभुजे बिसकन्दलीः ।
उत्तरीयशिरोधानो निषसाद शिलातले ।। ८५ ॥ (तिलकम् )
ततो मुहूर्तविश्रान्त उत्तरस्मिन्सरस्तटे ।
समुच्चरन्तं शुश्राव गीतध्वनिममानुषम् ॥ ८६ ॥
तस्यां दिशि दृढासक्तचक्षुरुक्षिप्तकंधरः ।
तमादौ निबिडश्रोत्रशुक्तिरिन्द्रायुधोऽशृणोत् ।। ८७ ।।
कुतोऽत्र विजने गीतमित्याविष्कृतकौतुकः ।
उत्थाय चन्द्रापीडोऽथ तामेव दिशमभ्यगात् ॥ ८८ ॥
गीतश्रवणलुब्धेन सलीलमभिधावता ।
१अपृष्टेनापि मार्गोऽस्य २मार्गेणैव न्यवेद्यत ।। ८९ ।।
गत्वा प्रासादमैक्षिष्ट स्फाटिकं नातिदूरतः ।
हसन्तमिव कैलासशोभाविभवमंशुभिः३ ॥ १० ॥
देवं चतुर्मुखं तत्र रत्नपीठप्रतिष्ठितम् ।
भगवन्तमुमाकान्तं ददर्श प्रणनाम च ॥ ९१ ।।
तस्याथ दक्षिणां मूर्तिमाश्रित्य विहितासना।
उत्सङ्गनिहितां वीणां वादयन्ती ४कलस्वनम् ॥ ९२ ॥
देहप्रभावितानेन कुन्दगौरेण सर्पता।
साक्षाल्लक्ष्मीरिव क्षीरजलधेर्मध्यवर्तिनी ॥ ९३ ।।
कोपाग्निशमितानङ्गप्रत्युज्जीवनवाञ्छया ।
रतिः प्रसादयन्तीव तपसा पार्वतीपतिम्५ ॥ ९४ ॥
नवेऽपि वयसि प्राप्तवैराग्याभ्यासवासना ।
व्यलोकि कन्यका तेन धृतपाशुपतव्रता ॥ ९५ ॥
चन्द्रापीडोऽथ६ तां दृष्ट्वा विस्मयाविष्टमानसः ।
केयं स्यात्कन्यका नास्या दिव्यतां प्रति संशयः ॥ ९६ ॥
(चक्कलकम् )

१. 'अथ' ख. २. भृगसमूहेनेत्यर्थः, ३. 'लक्ष्मी' ख. ४. 'कलखना' क.५. 'प्रियम्'ख. ६. 'तु' ख.