पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
काव्यमाला

आलिलिङ्ग च१ तं राजा चुचुम्ब शिरसि २क्षणात् ।
ग्रहीतुमैच्छदुत्सङ्गे स तु भूमावुपाविशत् ॥ ३ ॥
द्रष्टुं पुनःपुनः ३स्प्रष्टुमतृप्तेनापि भृभुजा ।
विसृष्टोऽथ ४क्षणं स्थित्वा मातरं वन्दितुं ययौ ॥ ४ ॥
तां सुतालोकनानन्दक्षरत्क्षीरपयोधराम् ।
प्रणम्य जननीः सर्वा नन्दयामास वन्दनैः ॥५॥
अभिनन्द्य कृतं ताभिरवतारणमङ्गलम् ।
शुकनासमथ द्रष्टुमयासीत्तस्य मन्दिरम् ॥ ६ ॥
द्वारि वाजिनमुत्सृज्य प्रविश्य प्रश्रयेण तम् ।
पितृवत्प्रणनामासौ५ मौलिना मेदिनीं स्पृशन् ।। ७ ।।
नमन्तमेनमुत्थाप्य स्वयमुत्थाय सादरम् ।
शुकनासस्तु जग्राह कण्ठे पुलकिताननः ॥ ८॥
कृतयत्नोऽपि नाध्यास्त चारुचामीकरासनम् ।
चन्द्रापीडः क्षितावेव तस्य न्यविशताग्रतः ॥ ९॥
शुकनासं च मुञ्चन्तमासनं स्वं न्यवारयत् ।
तत्र क्षणमिव स्थित्वा द्रष्टुमागान्मनोरमाम्६ ॥ १० ॥
सप्रश्रयं प्रणम्याथ तां विलासवतीमिव ।
ततोऽवाप्तविचित्राशीर्मङ्गलो निरियाय सः ।। ११ ।।
७यादृक्च चन्द्रापीडस्य दर्शनालिङ्गनक्रमः।
स वैशम्पायनस्यापि तादृगेव गृहद्वये ।। १२ ।।
न कश्चन सुतस्नेहे विशेषश्च तयोरभूत् ।
मन्त्रिणो राजपुत्रे वा मन्त्रिपुत्रे नृपस्य वा ॥ १३ ॥
सर्वोपकरणोपेतं पित्रा पूर्वे प्रकल्पितम् ।
जगाम चन्द्रापीडोऽथ कुमारभवनं महत् ॥ १४ ॥

१. 'सुतं' ख. २. 'क्षणम्' ख. ३. 'प्रष्टुं' ल. ४. 'मुहुः'ख. ५. 'आदौ' का

६. 'प्रागात्' ख. ७. 'चन्द्रापीडस्य यादृक्षो'ख.