पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
काव्यमाला

निरपत्यः कृतः सोऽपि राजेव हतवेधसा ।
तस्याप्यनेन शोकेन गृहे रोदिति गेहिनी ॥ ३०॥
स तु स्वामिगतं दुःखं दुःखमित्यवधारयन् ।
तद्दुःखापनयोपायप्रवणो १धीरमभ्यधात् ॥ ४० ॥
क्व धीरप्रकृतिर्देवः क्वेयं विक्लवचित्तता।
शोकोऽवकाशं लभते हृदये न भवादृशाम् ॥ ११ ॥
२यदि हि स्त्रीस्वभावेन देवी विक्लवतां गता।
तत्किं प्रलम्बकूर्चस्य युक्तं देवस्य रोदितुम् ॥४२॥
कोऽयं हिताहितप्राप्तिपारिहारक्रियाक्रमः ।
यत्क्रपोलतलन्यस्तहस्तं निःश्वस्यते चिरम् ॥ ४३ ॥
यदि ३दुःखासिका सत्यमनपत्यतया तव ।
बुद्धिराधीयतां धर्मे धर्मात्सर्वमवाप्यते ॥ १४ ॥
दीयतां वसु विप्रेभ्यः पूज्यन्तां सर्वदेवताः।
प्रवर्त्यन्तां प्रपारामाः स्वन्यन्तां सलिलाशयाः ॥ ४५ ॥
४नास्तिनाम जगत्यस्मिन्पुरुषार्थः स कश्चन ।
यो धर्मनिरतैर्धीरैस्त्वादृशैर्नाधिगम्यते ॥ ४६॥
इत्यादि शुकनासोक्तमाकर्ण्य विगतज्वरौ ।
उत्थाय स्वस्थवत्सर्वा दंपती चक्रतुः क्रियाः ॥ १७ ॥
ततः प्रभृति दानानि यागहोमतपांसि६ तौ।
७चित्राण्यकुरुतां सर्वा व्यस्मयन्त ८ततः प्रजाः ॥ १८ ॥
कदाचिदथ भूपालः स्वप्नेऽपश्यन्निशाकरम् ।
विलासवत्या वदनं प्रविशन्तमखण्डितम् ॥ ४९ ॥
तथा मनोरमा नाम शुकनासस्य गेहिनी ।
स्वमे सपुण्डरीकाङ्का सापि तेन व्यलोक्यत ॥ ५० ॥

१. अब्रवीत्' ख. २. 'यदीह' ख. ३. 'दुःखस्थितिः' ख. ४. 'अस्ति' क. ५. 'वीरैः' क. ६. 'च' क. ७. 'चाक्रतुस्तु विचित्राणि' क. ८. 'यतः' क.