पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
काव्यमाला


जराधवलमूर्धानं धाम्ना प्रसरता बहिः ।
अनतिस्फुटसंलक्ष्यशरीरावयवाकृतिम् ॥ ९६ ।। (युग्मम् )
स तु मां क्षणमुद्वीक्ष्य स्मयमान इवावदत् ।
इदं हि भुज्यतेऽनेन फलं स्वस्यैव कर्मणः ॥ ९७ ॥
त्रिकालदर्शी भगवान्स हि दिव्येन चक्षुषा ।
विश्वं पश्यति १पाणिस्थबदरामलकादिवन् ॥ ९८ ॥
वचस्तदाकर्ण्य कुतूहलाकुलाः समेत्य सर्वे मुनयस्तमब्रुवन् ।
बभूव कोऽयं भगवन्भवान्तरे २किमस्य वा दुश्चरितं तदुच्यताम् ॥९९।।
३अभ्यर्थितो मुनिभिरित्युपरुध्यमान-
स्तानब्रवीत्कुरुत तावदहः क्रियाः स्वाः ।
सांध्यं विधाय विधिमस्खलितावधान-
माकर्णयिष्यथ कथां पृथुमेतदीयाम् ॥ १०० ।।
उक्तास्तथा४ भगवता मुनयो निजेन
कर्मक्रमेण दिवसं गमयांबभूवुः ।
हारीतहस्तविहितैश्च५ मनोविनोदैस्तैस्तैरनीयत मयापि दिनावशेषः ।। १०१ ॥
इति श्रीविपश्चिद्वराग्रगण्याचार्यभाट्टश्रीजयन्तसूनोरभिनन्दस्य कृतौ कादम्बरीकथासारे
प्रथमः सर्गः।


द्वितीयः सर्गः।

अथ ७संध्यासमाध्यन्ताः समाप्य मुनयः क्रियाः।
शुश्रूषवः समागम्य ८यथास्थानमुपाविशन् ॥१॥
अहमप्यात्मवृत्तान्तविस्तरश्रवणोत्सुकः ।
संहृत्य चापलं सर्वमासं स्थिरमनास्तदा ॥२॥

१. 'पाणिस्थं करस्थामलं यथा' ख. २. 'किमद्य यत्'क. ३. 'अभ्यर्चितो मुनिभिरित्यनुबध्यमानः' ख. ४. 'च ते' क. ५. 'निहतेन' ख. ६.'इति श्रीविपक्षिद्वराग्रगण्याचार्य' इति स्व-पुस्तके नास्ति. ७. 'सांध्या:' ख. ८. 'यथास्थलम्'ख.