पृष्ठम्:कादम्बरीकथासारसङ्ग्रहः.pdf/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला

१हतप्राणिसहस्राङ्गस्रबद्रुधिरचर्चितैः ।
मुहूर्तादेव २तद्व्याधैरथारण्यमपूर्यत ।। ७२ ॥
सेनापतिः ३स निस्त्रिंशो मृगयाजनितश्रमः ।
निषसाद ४ततः ५पम्पासरसस्तीरशाद्वले ।। ७३ ।।
क्षणं विश्रम्य पीत्वापः प्राश्य बालमृणालिकाः।
पुलिन्दैः सह सेनानीः स जगाम यथागतम् ॥ ७४ ।।
एको जरत्पुलिन्दस्तु पापस्तत्र ६व्यलम्बत ।
प्रांशुर्भयंकराकारः कृतान्तस्येव किंकरः ।। ७५ ॥
अजातपिशितप्राप्तिरनुभूतवृथाश्रमः ।
यमदूतीमिव दृशं स ददौ तत्र शाल्मलौ ॥ ७६ ।।
स दुरारोहतां तस्य जानन्नपि महातरोः ।
जातानध्यवसायोऽपि यत्नमारोहणेऽकरोत् ।। ७७ ॥
७अश्राहमसमत्रासविपर्यासितमानसः ।
अविशं पितुरुत्सङ्गं तत्पक्षावृतविग्रहः८ ॥ ७८ ।।
स तु पापस्तमारुह्य तरुं नीडनिवासिनः ।
हत्वाहत्वा यथाशक्ति शुकान्भूभावपातयत् ॥ ७९ ॥
क्रमेण स दुराचारस्तातस्यापि शिरोधराम् ।
बभञ्ज तं ९च चिक्षेप क्षितौ विगतजीवितम् ॥ ८० ॥
तदा मम न तच्छोको नान्यर्किंचिच्च१० चेतसि ।
केवलं सहजातेन भयेनैवासि विप्लुतः ॥ ८१ ।।
ततोऽहं पितुरुत्सङ्गाद्विनिर्गत्य ससाध्वसम् ।
अन्तरं तरुशीर्णानां पर्णानां तूर्णमाविशम् ॥ ८२ ।।
पापः सोऽप्यवरुह्याथ शाल्मलेर्मूलवर्तिनः ।
शुकान्गतासूनादाय व्याधाननुसरन्नगात् ॥ ८३ ।।

so

१. 'सहस्रौधैः' ख. २. 'तदरण्य' ख. ३. 'तु' क. ४. 'मुहुः' क. ५. 'शाङ्कले' ख.६. 'विलम्बितः' ख. ७. 'ततोऽहं' ख. 4, 'पक्षावित-' ख. ९.'तु' ख. १०. 'किंचन' ख.