पृष्ठम्:कादम्बरीकथासारः.pdf/१६१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३७
कादम्बरीकथासारः


काले मधु माधवमाशु जेतुं
जगन्ति पुष्पेषुरिवाम्रवत्यै ॥ ५३ ॥

ततः सपित्रानुमतः कुमारः
प्रयाणतूर्याहृतराजलोकः ।
निष्पय पुर्याः शुकनाससूत्रं
प्रेम्णा दिदृक्षुः सहसा जगाम ॥ ४४ ॥

स राजचिह्नान्यपहाय दूरा
द्वित्रैस्तुरीर्जवनैरुपेत
प्रेम्णा यथापूर्वमनाथभावः
सेनानिवेशं सहसा विवेश ॥ ४५ ॥

1अपोढनानाविधकार्यजाता
नुद्भिन्नवाष्पाचुकषायितान् ।
बिलुप्तधैर्यान्स ददर्श सैन्या
न्वाक्यादृते व्यञ्जितदुःखभारान् ॥ ४६ ॥

कस्मिन्नेदेशे मतिमान्सखेति
पृच्छन्तमन्तर्गतभावदोषम् ।
नरेन्द्रमालोक्यतां जनानां
मनो बभूव प्रतिपत्तिमूढम् ॥ ४७ ॥

ते राजलोकाः प्रणिपत्य मूर्ती
विषादलुप्तममनःप्रसादाः ।
अवाङ्मुखा हीविजिता नितान्तं
न किञ्चिदूचुः शुकनाससूनुम् ॥ ४८ ॥


1. अबोढर्यान्तरकर्मजातानुद्भआध्याबुनषायणोऽभूत् । इति मातृक्ष ।