पृष्ठम्:कादम्बरीकथासारः.pdf/१६०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
श्री त्रिविक्रमविरचितः


प्राप्तः सखा पक्तिपुरं ससैन्यो
1मा मे प्रयाणे तव संशयोऽभूत् ।
इत्यूचिवांसं तमुवाच धीमा
केयूरकोप्यजलिबन्धपूर्वम् ॥ ३८ ॥

देव ! त्वया गन्तुमहं न शक्तः
कालातिपातं न सहेत देवी ।
इत्थं गृणन्तं समुदीर्णतापो
नृपस्तमादेक्षत साधयाशु ॥ ३९ ॥

प्रेष्ठो भव त्वं मम पृष्ठतस्ते
द्रष्टुं प्रियामेमि समुत्सुकां ताम् ।
अग्रेसरं प्रातरन्मर्क-
मृणालिनीं भानुरिवानुरक्ताम् ॥ ४० ॥

आहूय संमान्य च पत्रलेखां
नरेन्द्रसूनुर्निरदिक्षदेवम् ।
त्वं पत्रलेखे! सह मेघनाद
केयूरकभ्यां व्रज हेमकूटम् ॥ ४१ ॥

यां वीक्ष्य मुग्धात्मवियोगदुःखं
सहिष्यते तत्स्थमं मृगाक्षी ।
तथैव मां त्वं प्रतिपाल्य तिठेः
यत्र स्थिता हंससुतासखीति ।। ४२ ।।

इत्थं निगध प्रजिगाय भूय
स्तां मेघनादं च नृपः प्रियायै ।


2. मम प्रया प्रयाणे तत्र सशयोभूत् इति मातृका ।