पृष्ठम्:कादम्बरीकथासारः.pdf/१५९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३५
कादम्बरीकथासारः


क्थं गमिष्याम्यनिवेद्य पित्रे
स्वच्छन्दतः प्रेमवशामियायाम् ।
1निवेद्यते किं नु कथं नु पृष्टो
वक्तुं प्रभुः स्यां प्रभविष्णवेऽहम् ॥ ३३ ॥

एकत्र लजा निरुणद्धि यात्रां
अन्यत्र सन्धुक्षयति सरताम् ।
तेनैव तन्मध्यगतोऽहमद्य
स्यातुं प्रयातु च कथ प्रभुः स्याम् ॥ ३४ ॥

सखा दवीयान्शरणं विपल्ट
2विशिष्य कान्ताविरहद्वासु
अतोऽत्र कथं विरसेऽसहाये
कुत्रापि न स्पन्दितुमीशितास्मि ॥ ३५ ॥

इत्थं चिंतकैः कलुषीकृतात्मा
बाष्पाम्बुतिभ्यनयनत्रिभागः ।
शय्यातलआन्तविवर्तनैस्तां
द्राघीयसीं रात्रिमसौ निनाय ॥ ३६ ॥

अन्येद्युराकथं जनाकुमारः
सेनां निजां पक्तिपुरं प्रपनाम् ।
3आनाय्य केयूरकमादरेण
प्रेमोन्तरं वाक्यमिदं जगाद ॥ ३७ ॥


1. निवेश्यते चेकिन्नु कथं नु दृष्टे इति मातृका ।
2. अयं पादो मूले श्रुटितः ।
3. आनाम्य इति मातृ।।