पृष्ठम्:काठकोपनिषत्.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।१।१३ काठकोपनिषत् ६८ अङ्गुष्ठमात्रः पुरुषा ज्योतिरिवाधूमकः ॥ ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ १३ ॥ यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ॥ एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ॥ १४ ॥ यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । [शांकरभाष्यम्] किंच -अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकोऽधूमकमिति युक्तं ज्योतिष्परत्वात् । यस्त्वेवंलक्षितो योगिभिर्ह्दय ईशानो भूतभव्यस्य स नित्यः कूटस्थोऽद्येदानीं प्राणिषु वर्तमानः स उ क्ष्वोऽपि वर्तिष्यते नान्य- स्तत्समोऽन्यश्च जनिप्यत इत्यर्थः । अनेन नायमस्तीति चैक इत्ययं पक्षो न्यायतोऽप्राप्तोऽपि स्ववचनेन श्रत्या प्रत्यक्तस्तथा क्षणभङ्गवादक्ष्च ॥१३॥ पुनरपि भेददर्शनापवादं ब्रह्मण आह-यथोदकं दुर्गे दुर्गमे देश उच्छूिते वृष्टं सिक्तं पर्वतेषु पर्वतवत्सु निम्नप्रदेशेषु विधावति विकीर्णे सद्वि- नश्यति एवं धर्मानात्मनो भिन्नान्पृथक्पश्यन्पृथगेव प्रतिशरीरं पश्यंस्तानेव शरीरभेदानुवर्तिनोऽनुविधावति । शरीरभेदमेव पृथक्पुनः प्रतिपद्यत इत्यर्थः ॥ यस्य पुनर्विद्यावतो विध्वस्तोपाधिकृतभेददर्शनस्य विशुद्धविज्ञानघनैकर समद्वयमात्मानं पश्यतो विजानतो मुनेर्मननशीलस्यात्मस्वरूपं कथं संभवती- त्युच्यते-यथोदकं शुद्धे प्रसन्ने शुद्धं प्रसन्नमासिक्तं प्रक्षिप्तमेकरसमेव नान्यथा तादृगेव भवत्यात्माप्येवमेव भवत्येकत्वं विजानतो मुनेर्मननशीलस्य हे गौतम । [प्रकाशिका] दोपादानेन सरोरुहपदरूढिभङ्गस्य दर्शनात् । इतरथा पद्मानीति पदानुपादानत्वापत्तेः । अत ईशानशब्दस्य न श्रुतित्वम् । एतत्स्वरसादेव व्यासार्यैरपि यथाश्रुतभाष्यानुगुण्येन यद्वेति पक्षान्तरस्याश्रितत्वादित्यलम- तिचर्चया । प्रकृतमनुसराम । उक्तोऽर्थः ॥ १२ ॥ शुष्केन्धनानलवत्प्रकाशमान इत्यर्थ । अद्यतनपदार्थजातं क्ष्वस्तनपदार्थ- जातं कालत्रयवर्तिपदार्थजातमपि तदात्मकमित्यर्थः । पूर्ववत् ॥ १३ ॥ पर्वतमूध्रि वृष्टं प्रत्यन्तपर्वतेषु नानाभूततया पतित्वा पतित्वा धावति । एवं परमात्मगतदेवान्तर्यामित्वमनुष्यान्तर्यामित्वादिधर्मान्पृथगधिकरणनिष्ठा- न्पश्यन्पर्वतनिरपातमनुकृत्य संसारकुहरे पततीत्यर्थः ॥ १४ ॥ सर्वत्रैकात्मकत्वज्ञानस्य फलमाह--यथा शुद्धजलं शुद्धजलं योजितं तत्स- दृशमेव भवति न कथंचिद्विसदृशमेवमित्थं विजानतो मननशीलस्यात्मा- पि परमात्मज्ञानेन विशुद्धः सन्विशुद्धेन परमात्मना समानो भवतीत्यर्थः ।