पृष्ठम्:काठकोपनिषत्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६७ भाष्यद्वयोपेता २।१।१२ [प्रकाशिका]दोषान्भोग्यतया पश्यतीत्यर्थः । ननु “प्राणाधिपः संचरति स्वकर्म- भिः'क्ष्वे.५।७ “अङ्गुष्ठमात्रो रवितुल्यरूपः ' क्ष्चे.५।८ “अडुग्ष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्।'म. भा.व. इत्यादिश्रुतिस्मृतिष्वङ्गुष्ठमात्रत्वेन प्रीतपा- दितस्य जीवस्यैवास्मिन्मन्त्रे प्रतिपादनं किं न स्यात्। न च न तस्य भूतभव्येशान- त्वादीति वाच्यम् । प्रथमश्रुतजीवलिङ्गानुरोधेन चरमश्रुतभूतभव्येशानत्व- स्यापेक्षिकतया योजयितुं शक्यत्वादिति चेन्न । "शब्दादेव प्रमितः" ब्र. सू. १।३।२४ इत्यधिकरण एवमेव पूर्वपक्षं कृत्वा हृदयावच्छेदनि- बन्धनाङ्गुष्ठपरिमाणस्य परमात्मन्यपि संभवात् " अङ्ठमात्र पुरुषोऽ- ङ्गुष्ठं च समाश्रित ” १६।३ इति तैत्तिरीयके । "अङ्गुष्ठमात्रः पुरुषो- ऽन्तरात्मा सदा जनानां हृदये संनिविष्टः' इति ३।१३ क्ष्वेताश्वतरे चाङ्- गुष्ठमात्रत्वस्य परमात्मन्यपि श्रवणात् । असंकुचितभूतभव्येशितृत्वस्यानन्य- थासिद्धब्रह्मलिङ्गत्वादयं मन्त्रः परमात्मपर एवेति सिद्धान्तितत्वात् । यत्वत्र कैश्चिदुच्यते-अङ्गुष्ठमात्रत्वं जीवलिङ्गमेव । अथाप्यङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठतीति पूर्वाधेन जीवमनूद्य, ईशानो भूतभव्यस्य इत्यनेन परमात्मभावो विधीयत इति । तदसमञ्जसम् । तथाहि सति परमात्मन्य- ङ्गगुष्ठमात्रत्वसंभावनाप्रदर्शकस्य " हृद्यपेक्षया तु मनुष्याधिकारत्वात् " ब्र. सू. १।३।२५ इति सूत्रस्यासंगतिप्रसङ्गात् । ननु नास्मिन्मन्त्रे जीवानु- वादेन ब्रह्मभावो विधीयते । आराग्रमात्रतया प्रतिपन्नस्य जीवस्याङ्गुष्ठ- मात्रत्वे प्रमाणाभावादिति तटस्थशङ्कापरिहारार्थे जीवस्याङ्गुष्ठमात्रत्वसाध- नाय प्रवृत्तमिदं सूत्रमिति चेत् । तथाश्रयणस्य ल्किष्टत्वात् । नन्वीश्वरः शर्व ईशान इति निघण्टुपाठेनेशानशब्दस्य देवताविशेषे रूढत्वात् “ श- ब्दादेव प्रमित " ब्र. सू. १।३।२४ इति सूत्र ईशानो भूतभव्यस्येति शब्दादेव न तु भूतभव्यस्य सर्वस्येशितृत्वं कर्मवश्यजीवस्योपपद्यत इति भाष्यं व्याकुर्वद्भिव्यसार्यैरीशानशब्दस्यैव शब्दशब्देन विवक्षितत्वात् नात्र लिङ्गान्निर्णयः किं त्वीश्वरवाचिशब्दादेवेत्येवकाराभिप्राय इति याख्यातत्वात्, ईशानशब्दस्य श्रुतित्वाभ्युपगमात्, तयैव चेशानशब्द- श्रुत्या जीवव्यावृत्तिवदेव नारायणस्यापि व्यावर्तितत्वेन रुद्रपरत्वमेव स्यादिति चेन्न । योगरूढिमतः पदस्य संनिधाववयवार्थविशेषकपदान्तरसं- निधाने रूढ्यनुन्मेषस्य । पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्म- यूखैः । इत्यादिषु दर्शनात् । तत्र हि सरोरुहपदावयवार्थसरोविशेषकाग्रप-