पृष्ठम्:काठकोपनिषत्.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।१।११ काठंकोप्निषत् ६६ मनसैवेदमाप्तव्यं नेह नानास्ति किंचन ॥ मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११ ॥ अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति॥ ईशानो भूतभव्यस्य न ततो वजुगुप्सते । एतद्वै तत् ॥ १२ ॥ [शांकरभाष्यम्] भूते परस्मादन्योऽहं मत्तोऽन्यत्परं ब्रह्मोति नावेव भिन्नमिव पश्यत्युपलभते स मृत्योर्मरणान्मृत्युं मरणं पुन पुनर्जन्ममरणभावमाप्नोति प्रतिपद्यते । तस्मात्तथा न पश्येत् । विज्ञानैकरसं नैरन्तर्येणाकाशवत्परिपूर्णं ब्रहौवाहमस्मीति पश्येदिति वाक्यार्थः ॥ १० ॥ प्रागेकत्वविज्ञानादाचार्यागमसंस्कृतेन मनसेदं ब्रहौकरसमाप्तव्यमात्मैव नान्यदस्तीति । आप्ते च नानात्वप्रत्युपस्थापिकाया अविद्याया निवृत्तत्वादिह ब्रह्मणि नाना नास्ति किंचनाणुमात्रमपि । यस्तु पुनराविद्यातिमिरदृष्टि न मुञ्चति नानेव पश्यति स मृत्योर्मृत्युं गच्छत्येव स्वल्पमपि भेदमध्यारोपय- न्नित्यर्थः ॥ ११ ॥ पुनरपि तदेव प्रकृतं ब्रह्माह-अङ्गुष्ठमात्रोऽङगुष्ठपरिमाणः अङ्गुष्ठप- रिमाणं हृदयपुण्डरीकं तच्छिद्रवर्त्यन्त:करणोपाधिरङ्गुष्ठमात्रवंशपर्वमध्यव- र्त्यम्बरवत् । पुरुषः पूर्णमनेन सर्वमिति । मध्य आत्मनि शरीरे तिष्ठति यस्तमात्मानमीशानं भूतभव्यस्य विदित्वा न तत इत्यादि पूर्ववत् ॥ १२ ॥ [ प्रकाशिका ] मप्याध्यात्मभूतमित्यर्थः । ततश्चात्मभेदो नास्तीत्यर्थः । अयमाभिप्रायः । किं परमात्मतत्त्वविदामहमिहैवेति प्रतीतिः सर्वदेशकालव- र्तिपदार्थात्मकत्वबाधकतयोपन्यस्यत उत तद्रहितानाम् । नाद्य: । तेषामह- मिहैवेत्यादिप्रतीतेरेवाभावात् । प्रत्युताहम् मनुरभवं सूर्यश्चेति सर्ववस्तुव- र्तितयैवानुभवात् । न द्वितीयः । अतत्वविदामहंप्रतीतेर्जीवमात्रविषयत्वेन तत्र देशान्तरव्यावृत्तत्वप्रतीतेस्तदानीमप्रतीतपरमात्मनि सर्वदेशवर्तिपदार्थात्मत्व- विरोधित्वाभावादिति । इह परमात्मनि भेदमिव यः पश्यति स तु संसारा- त्संसारं प्राप्नोतीत्यर्थः ॥ १० ॥ नन्वस्माकं सर्वात्मभूतं परमात्मतत्त्वं कुतो नोपलभ्यत इत्यत्राह-- इदमात्मस्वरूपं विशुद्धमनोग्राह्यमित्यर्थः । उक्तमेवार्थं दृढीकरणायाभ्य स्यति । स्पष्टोऽर्थः ॥ ११ ॥ कालत्रयवर्तिनिखिलचेतनाचेतनेश्वरः पुरुष उपासकशरीरेऽङ्गुष्ठपरि- माणः सन्नास्ते । ततो भूतभव्येश्वरत्वादेव वात्सल्यातिशयाद्देहगतानपि