पृष्ठम्:काठकोपनिषत्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।१।१९ एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५ ॥ इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली समाप्ता ॥२॥ (४) पुरमकादशद्वारमजस्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १ ॥ [शांकर ] तस्मात्कृतार्किकभेददृष्टिं नास्तिककुदृष्टिं चोज्झित्वा मातापितृसह- स्त्रेभ्येऽपि हितैषिणा वेदेनोपदिष्टमात्मैकत्वदर्शनं शान्तदर्पैरादरणीयमित्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्य- श्रीमदाचार्यश्रीशंकरभगवत: कृतौ काठकोपनिषद्भाण्ये द्वितीयाध्याये प्रथमवल्ली समाप्ता ॥ १ ॥ ( ४ ) पुनरपि प्रकारान्तरेण ब्रह्मतत्वनिर्धारणार्थोऽयमारम्भो दुर्विज्ञेयत्वा- द्ब्रह्मणः-पुरं पुरमिव पुरं द्वारपालाधिष्ठात्राद्यनेकपुरोपकरणसंपत्तिदर्शना- च्छरीरं पुरम् । पुरं च सोपकर स्वात्मनासंहतस्वतन्त्रस्वाम्यथ्यै दृष्टम् । तथेदं पुरसामान्यादनेकोपकरणसंहतं शरीरं स्वात्मनासंहतराजस्थानीयस्वा- म्यर्थं भवितुमर्हति । तच्चेदं शरीराख्यं पुरमेकादशद्वारमेकादश द्वाराण्यस्य सप्त शीर्षण्यानि नाभ्या सहार्वाञ्चि त्रीणि शिरस्येकं तैरेकादशद्वारं पुरं कस्याजस्य जन्मादिविक्रियारहितस्यात्मनो राजस्थानीयस्य पुरधर्मविलक्ष- णस्य । अवक्रचेतसोऽवक्रमकुटिलमादित्यप्रकाशवन्नित्यमेवावस्थितमेकरूपं चेतो विज्ञानमस्येत्यवक्रचेतास्तस्यावक्रचेतसो राजस्थानीयस्य ब्रह्मणः । यस्येदं पुरं तं परमेश्वरं पुरस्वामिनमनुष्ठाय ध्यात्वा । ध्यानं हि तस्यानु- ष्ठानं सम्यग्विज्ञानपूर्वकम् । तं सर्वेषणाविनिर्मुक्तः सन्समं सर्वभूतस्थं ध्यात्वा न शोचति । तद्विज्ञानादभयप्राप्तेः शोकावसराभावात्कुतो भयेक्षा । इहैवाविद्याकृतकामकर्मबन्धनैर्विमुक्तो भवति । विमुक्तश्च सन्विमुच्यते पुनः शरीरं न गृह्यातीत्यर्थः ॥ १ ॥ [ प्रकाशिका ] गौतमेति प्राप्यवैभवं सूचयन्सहर्षे संबोधयति ॥ १५ ॥ समाप्ता प्रथमा वल्ली । जननादिविक्रियारहितस्य ऋजुबुद्धेर्विवेकिन आत्मन एकादशेन्द्रियल क्षणबहिर्निर्गमद्वारोपेतं शरीराख्यं पुरं भवति । पुरस्वामिनो यथा पुरं वि वित्तं भवति तथा शरीरमपि स्वात्मनो विविच्य ज्ञातं भवति । अविवेकि नस्तु देह आत्मैव भवतीति भावः । अनुष्ठाय न शोचति । विविच्य जानन्देहानुबन्धिभिर्युःखैः कामादिभिश्च विमुक्तो भक्रतीत्यर्थः । विमुक्तश्च