पृष्ठम्:काठकोपनिषत्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वोत्कृष्टतां द्योतयितुं सापेक्षोत्कृष्टत्वपरम्परा चोक्ता । तत आत्मनी संभवात्तदैकाग्यप्रकारमाह । ततो ज्ञाने प्रयतितव्यमिति श्रुतिवाक्यम् । ततोऽशब्दमित्यादि ब्रह्मणः स्वरूपम् । तज्ज्ञानान्मुक्तिः । अथ चास्योपाख्यानस्य पठनश्रवणयोः फलश्रुतिः॥१॥३॥ प्रथमाध्याये संक्षेपेणोक्तस्य ब्रह्मस्वरूपस्य विस्तरशो निरूपणे द्वितीयोऽध्याय उपयुक्तः । तत्र प्रथममिन्द्रियाणां पराक्प्रवणत्वमात्मदर्शन प्रतिबन्धकमुक्तम् । तत आत्मनश्चैतन्यस्वरूपं कथितम् । जीवेशभेदनिरा करणम् । जीवैक्यप्रतिपादनम् । जीवानित्यत्वनिराकरणम् ॥ २ ॥ १ ॥ अत्र चोक्तमेव ब्रह्म पुनः प्रकारान्तरेण निर्धारयति स्म । तथाहेि त्वंपदार्थाभेदेन प्रकृतं ब्रह्म प्रतिपिपादयिषुर्यमो देहादिसंघातादात्मतत् तस्यैवात्मनोऽस्तित्वकथनम् । तस्यात्मन एकत्वं स्वातन्त्र्यं नित्यत्वं च तद्दर्शिनां शाश्वतं सुखम् । ततस्तस्यात्मनः सुखमयत्वे विदुरामनुभवस्य प्रामाण्यं कथितम् । आत्मा न परप्रकाश्यः किंतु स्वयंप्रकाश इति च काथतम् ॥ २ ॥ २ ॥ ततः संसारकारणत्वेन ब्रह्मस्वरूपावधारणाय कार्यवर्ग वृक्षस्य रूपक मालम्ब्याह । ततः सर्वेनियन्तृत्वरूपं ब्रह्मलिङ्गमुक्तम् । अस्मिन्नेव शरीरे ब्रह्मज्ञानं संपादनीयं यतः पितृलोकादौ तत्संपादनं न संभवतीत्युक्तम् । तत आत्मज्ञानप्रतिबन्धकं दोषं प्रतिकर्तु योगमाह। चित्तस्यानंकाग्रतारुरूपं एवं योगसाहाय्येन चित्तस्यैकाग्रतामवाप्य परमार्थदर्शिनो निवृत्तकामस्य जन्ममरणाभावलक्षणं फलमुक्तम् । एवं परमार्थतत्त्वं येन ज्ञायते तेनो पासकेनोपासनया ब्रह्मलोकादिः प्राप्यते । अज्ञानिना कर्मणा संसार गतिरवाप्यत इत्युक्तिश्च । ततः सर्ववलुयर्थभूतस्य ब्रह्मात्मैकत्वलक्षण स्योपसंहारः । तत आख्यायिकोपसंहारः ॥२॥३॥ २ तैतिरीयब्राह्मणस्था नचिकेतस आख्यायिका । इयमेव नचिकेतस आख्यायिका तैतिरीयब्राह्मणे तृतीयकाण्ड एकादशप्रपाठकेऽष्टमेऽनवाक उपलभ्यते तात्पर्यमित्थम्-अन्नदाना त्प्रथितयशाः कश्चिद्वैौतमगोत्रजो वाजश्रवा नाम मुनिर्बभूव । तस्य सुतो वाजश्रवस उद्दालकाख्यो मुनिरासीत् । तेन कदाचिद्विश्वजिद्याग आजहे । पु