नचिकेतसमाह-हे ब्रह्मन् । मम गृहे त्वं तिस्रो रात्रीरनशनेनावात्सीयैतस्ततो रात्रिसंख्यानुसारं त्रीन्वरान्वृणीष्वेति । तदानीं नचिकेता आह-त्वत्प्रेरणया यदाहं गृहं प्राप्नयां तदा मम पिता मद्विषये सौमनस्यवान्यथा भवेत्तथा विधेहीति वरोऽस्तु ममेति । अथ यमेन तथास्त्वित्युक्त नचिकेता प्रथम आह-कर्मिणो येनाग्निा चितेनामरत्वं लभन्ते तस्याझेः स्वरूपं ब्रूहीति द्वितीयो वर इति । तदा यमेन तादृशं स्वर्गसाधनभूतम िशृण्वित्युक्त्वा सोऽग्स्तिचयनसाधनभूता इष्टकाश्च नचिकेतसे यथावन्निवेदिताः । पुनश्च स यमोऽयाचितोऽपि वरं ददौ यदयमग्निचिकेत इति तव नाम्ना प्रथितो भविष्यतीति । ततो नचिकेतास्तृतीयं वरं वत्रे । तथाहि-प्राणिनि मृते सति देहादिसंघातव्यतिरिक्त आत्मास्तीत्येके वदन्ति । स नास्तीति कथयन्त्यन्ये । तर्हि स आत्मास्ति नवेति मम संशयं छिन्धीति । तदा नचिकेतसोऽधिकारं जिज्ञासमानेन यमेन प्रोक्तं अत्र विषये देवा अपि मुह्यन्ति । अन्यत्किाच त्पृच्छ । एतद्विषय उपरोधं मा कार्षस्ततो नचिकेता आह-यदि देवा अप्यत्र विषये मुह्यन्ति । तर्हि त्वादृशमन्यं वक्तारं कथमहमुपलभय तत स्त्वमिममेव संशयं निवारय । ततो बहुभिर्तुर्लभैः कामैः प्रलोभितोऽपि नचि केता अचीकथद्यद्विषयाः क्षणभङ्गुरास्तेषु को विद्वान् न्निद्येत्तस्मादतोऽतिरिक्त वरं नाहं कामये । इममेव संशयं छिन्धीति ॥ १ ॥ १ ॥ एवं सर्वविषयविरतं तं योग्याधिकारिणं बुद्धया श्रेयः कथयितुकाम प्रेयोऽपेक्षया श्रेय एव विशेषतो ग्राह्यमिति बोधयितुं तयोर्भदं च कथयित्वा विषयविरक्ततया विद्याभीप्सी त्वं भवसि नचिकेत इति तं स्तुत्वा सकाम कर्मणां निषिद्धकर्मणां च कर्तृन् निन्दति स्म । ततो मोक्षार्थिनो दौर्लभ्यं, वक्तृज्ञातृदौर्लभ्यं, तर्कणात्मनोऽज्ञेयत्वं कथयति स्म । अथ च तत्त्वज्ञानस्य समूलसंसारनिवर्तकत्वं, आनन्दावाप्तिसाधनत्वं चाह । तादृशं तत्त्वज्ञानं साधनं विना न सेत्स्यतीति तत्साधनभूतं द्विविधर्मोकारोपासनमाह यमः । ततस्तेन निरूपाधिकमतिसूक्ष्मं प्रवचनादिभिरसाध्यमात्मतत्त्वमुक्तम् ॥१॥२॥ अथ च पर्वोक्तविद्याविद्यथोः स्वरूपसाधनफलानि । विद्याविद्ययो ज्ञानसौकर्यार्था रथरूपककल्पना । तत्रादौ गन्तगन्तव्यविवेकार्थ तत्त्वंपदार्थ भूतौ द्वावात्मानावाह । तत्र भोक्तजीवस्य संसारं मोक्षं वा गच्छतो रथिनो रथादिवच्छरीरादीनि गतिसाधनानि दर्शयति स्म । तत्र संसारमोक्षरूपगति द्वैविध्यं वतुं सारथिद्वैविध्यं ततो गमनस्य परमावधिभूतं विष्णुपदम् । तस्य
पृष्ठम्:काठकोपनिषत्.djvu/८
दिखावट