पृष्ठम्:काठकोपनिषत्.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ प्रास्ताविकं किंचित्। १ कठो । ॐ भूधरभूजानिर्विजयते । वेदवेदान्तसम्बन्धादि सर्व वाङ्गयविषयकं केनोपनिषत्प्रस्तावनायामुदलेखेि । उपनिषच्छब्दाथेऽपि तत्रैव विस्तरशो वर्णितः । अद्वैतविशिष्टाद्वैतयोः स्वरूपं तत्तारतम्यमपि तत्रैव विद्वषां दृष्टि पथमायास्यति । अत्र तु केवलं कठोपनिषत्तद्राप्यादिविषयकं विचार्यते । इयमुपनिषत्सर्वासामुपनिषदां प्रशस्यतमा । मुमुक्षुजनोपकारकत्वात् । यतोऽस्यां पुनरुक्तिमगणयित्वा भूयो भूयःसर्वेऽपि विषयाः श्रेयःप्रेयःसम्बन्धिनः सवि स्तरं वर्णिता । यानालोच्य समभ्यस्य च मुमुक्षवः कृतकार्या भवेयुः । इयमुपनिषत् कृष्णयजुर्वेदान्तर्गतकठशाखास्था । अस्या अध्यायद्वयं प्रत्ययायं वलीत्रयम् । तत्र प्रथमवलयां शान्तिनन्तरं नचिकेतस सा अाख्यायका । चेत्थम्-यज्ञफलं कामयमानो वाजश्रवस उद्दालको विश्धनिद्यागेनेजे । तेनो तमा गाः पुत्रधनत्वेन संरक्ष्य स्वधनभूता गा यज्ञत्विग्भ्योऽदीयन्त । तद् दृष्ट्रा बालस्यापि तत्सुतस्य नचिकेतस एवं बुद्धिरासीद्यद्वृद्धगवीनां प्रदानेन दाता दु:वमयांलोकानामोति तत्द्येतादृशं क्रतुवैगुण्यं मया निवारणीयं स्वात्मप्रदानेनापीति । एवं चिन्तयन्स पितरमुवाच हे तात कं प्रति मां दास्यसीति तथैव द्वित्रिवारमुवाच । तेन कुद्धः पिता तमाह त्वां मृत्यवे दास्यामीति । तदानीं बालेन चिन्तितं मम प्राप्त्या सर्वेवैभवशालिनो यमस्य किं कार्यं भवेत् । अस्तु यदि पिता ददाति तर्हि तेन धैर्येण स्वप्रतिज्ञानु मारं वर्तितव्यं शोकाकुलेन न भवितव्यमिति बोधयितुं स पितरमाह यथा तव पितरोऽपरे साधवश्च प्रतिज्ञामवितथामकार्षस्तथैव त्वयापि वर्तितव्यं यतो व्रीहियवादिवन्मत्र्योऽवश्यं विनश्यति पुनर्जायते चेति ततः पित्रा प्रेषितो बालो यमगृहमयासीत् । परं यमस्तत्र नासीत् । तत्प्रवासे त्रिदिन पर्यन्तं तत्रैवोपोषितस्तस्थौ । ततो देशान्तरादागतं यमं तन्मन्त्रिणः प्रावोचन् । अतिथिवैश्वानरो भूत्वा गृहं प्रविशति । महान्तः पाद्यासनादिभिस्तच्छान्ति कर्वन्ति यतो यथा शान्तिमलभमानोऽग्गृिहादि दहति तद्वदनक्षन्नतिथि सर्वमिष्टापूर्तादिकं नाशयतीति । अयं त्वद्गृहमतिथित्वेनागतः । तदा यमौ