पृष्ठम्:काठकोपनिषत्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुत्रो बभूव । ऋत्विग्भ्यो दक्षिणात्वेन धेनुषु दीयमानासु तस्य मनस्येवं श्रद्धेोदपद्यत यद्यथाशास्त्रं दक्षिणा देयेति । ततः स विचारयामास यत्कर्म सद्विण्याथै पित्रा सर्वस्वं दातव्यमहं च पितुः स्वं तस्माद्दातव्योऽहमिति विचार्य पितरं प्रत्येवमुवाच । हे पितः । कस्मै मां दास्यसि । ततोऽनुत्तर यन्तं तं पुनः पुनरेवं त्रिवारमुवाच । एवं प्रक्षनिर्बन्धात्कुपितः सन्पिताब्र वीत् । अहं त्वां मृत्यवे ददामीति । तदानीं काचिददृश्यमानशरीरा दैवी वातं नचिकेतसं साग्रहमेवमवदत् । हे नचिकेतः पिता त्वां यद्वोचत्तस्यायम भिप्रायो यत्वं मृत्योगृहं गच्छ । एवमभिप्रायं विशदीकृत्य सा वाग्देवता तस्मै बुद्धिं वक्ष्यमाणरूपां ददौ। यद्यमो यदा कुत्रापि प्रवसेत्तदा त्वं तद्गृहं गच्छेः । तत्र च त्रिरात्रमनक्षन् निवासं कुरु । ततस्तप्रक्षेऽहं त्रिरात्रमत्र यवसमिति ब्रया । अथ स त्वां यदा पच्छेत्वं किं भक्षितवानसीति तदा त्वं प्रथमरात्रौ तव प्रजाः, द्वितीयरात्रौ पशून्, तृतीयरात्रौ सुकृतं भक्षितवा नस्मीति प्रतिबूयाः । ( अनेनेदं सूचितं—अतिथिगृहे समागत्य भोजनरहित एकदिने निवसति चेद्गृहस्वामिनः प्रजाक्षयो भवति । द्वितीयदिने पशुक्षयः। तृतीयदिने पुण्यक्षय इति ) एवं वाग्देवताशिक्षितो नचिकेतास्तथैवोत्तरया मास यमप्रश्नान् । तादृशानि प्रक्षेोत्तराण्यधिगत्य शास्रतात्पर्यविद्यं कुमारो न मारणीय इति निश्चित्य तं सत्कारपूर्वकमाह यम --हे भगवन्नचिकेतः । तुभ्यं नमो वरं वृणीष्वेति । अहं जीवन्नेव पितरं गच्छेयमिति नचिकेतसा वृतम् । ततो द्वितीयं वरं वृणीष्वेति यमेनोक्त नचिकेता आह ‘यथा मदीय श्रौतस्मार्तसुकृतयोः क्षयो न स्यात्तमुपायं बृहीति । ततो यमस्तस्मै नचिकेतस एतं पूर्वानवाकेप्वभिहितं चेतव्यमुपासितव्यं चेति द्विविधं नाचिकेतनामांकि तमग्मुिवाच । तेन नचिकेतसः श्रौतस्मार्तसुकृते क्षीणे न भवतः । एवं विज्ञानपर्वकं यो नाचिकेतम िचिन्ते तम्यापि न श्रौतस्मार्तकर्मक्षयो भवि ष्यति । पुनश्च तृतीयं वरं वृणीष्वेतेि यमेनोत्ते मृत्युजयरूपं वरमवृणोन्न चिकेताः । एवं वृणानाय तस्मै नचिकेतसे पुनमृत्युजयहेतुत्वेन तमेव द्विविधं नाचिकेताग्मुिवाच । (चयनोपासनयोर्मध्ये चयनस्य प्राधान्यमुपासनस्योप सर्जनत्वं यस्य पुसः संपद्यते तस्येष्टापूर्तयोरक्षयत्वमात्रं चिरं पुण्यश्लोकमनु भय पुनर्जन्मस्वीकारः । यस्य तूपासनं प्रधानं चयनमुपसर्जनं तस्य ब्रह्म लोकप्राप्तिद्वारा मुक्तिरेव न जन्मान्तरम् । तस्मान्मत्यं जयेत्थं वरयोर्विभागः) ततः प्रधानभूतादग्न्युपासनान्नाचिकेताः पुनर्तृत्यु जितवान् । एवमन्योऽपि