पृष्ठम्:काठकोपनिषत्.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।१।६ काठकोपनिषत् ६४

गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥ ६ ॥ या प्राणेन संभवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत । एतद्वै तत् ॥ ७ ॥ अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः । [शांकरभाष्यम्] शरीराण्युत्पाद्य सर्वप्राणिगुहां हृदयाकाशं प्रविश्य तिष्ठन्तं शब्दादीनुपलभमानं भूतेभिर्भूतैः कार्यकारणलक्षणैः सह तिष्ठन्तं यो व्यपश्यत यः पश्यतीत्येतत् । य एवं पश्यति स एतदेव पश्यति यत्तत्प्रकृतं ब्रह्म ॥६॥ किंच–या सर्वदेवतामयी सर्वदेवतात्मिका प्राणेन हिरण्यगर्भरूपेण परस्माद्रह्मणः संभवति शब्दादीनामदनाददितिस्तां पूर्ववद्गुहां प्रविश्य तिष्ठन्तीमदितिम् । तामेव विशिनष्टि-या भूतेभिर्भूतैः समन्विता व्यजा- यतोत्पन्नेत्येतत् ॥ ७ ॥

किंच-योऽधियज्ञ उत्तराधरारण्योर्निहितः स्थितो जातवेदा अग्निः पुनः सर्वहविषां भोक्ताध्यात्मं च योगिभिर्गर्भ इव गर्भिणीभिरन्तर्वत्नीभि- रगर्हितान्नपानभोजनादिना यथा गर्भः सुभृतः सुष्ठु सम्यग्भृतो लोक इवेत्थ- मेवर्त्विग्भिर्योगिभिश्च सुभृत इत्येतत् । किंच दिवे दिवेऽहन्यहनीड्यः स्तुत्यो [प्रकाशिका]मानंम्' क्ष्वे.४।१२ इति श्रुत्युक्तरीत्या प्रथमं जातं गुहां प्रविश्य तिष्ठन्तं हृदयगुहां प्रविश्य वर्तमानं भूतेभिर्भूतैर्देहेन्द्रियान्तःकरणादिभिरुपेतं चतुर्मुखमयं स लजगत्स्रष्टा स्यादिति कटाक्षेणैक्षतेत्यर्थः । उक्तोऽर्थः ॥६॥

अयं च मन्त्रो “गुहां प्रविष्टौ' ब्र. सू. १।२।११ इति सूत्रे भगवता भाष्यकृता व्याख्यातः । इत्थं हि भाष्यकृता कर्मफलान्यत्तीत्यदितिर्जीव उच्यते । प्राणेन संभवति प्राणेन सह वर्तते । देवतामयीन्द्रियाधीनभोगा । गुहां प्रविश्य तिष्ठन्ती हृदयपुण्डरीककुहरवर्तिनी । भूतेभिर्व्यजायत पृथि- व्यादिभिर्भतैः सहिता देवादिरूपेण विविधा जायत इति भाषितम् । तत्तदा त्मकमित्यर्थः । अत्रैव प्रकरणे " ब्रह्मजज्ञ देवमीड्यं विदित्वा " का। १।१।१७इत्यत्र देवमित्यस्य परमात्मकमिति व्याख्यातत्वात्, “क्षेत्रज्ञं चापि मां विद्धि' भ. गी. १३।२ इत्येतदुपबृंहणगीतावचनेऽपि मां मदात्मकमिति भाष्यकृतैव व्याख्यातत्वात्, अपृथक्सिद्धविशेषणवाचिशब्दस्य विशेष्य इवापृथक्सिद्धविशेष्यवाचिशब्दस्यापि विशेषणे निरूढत्वात्तदात्मकमित्यर्थो युक्त इति द्रष्टव्यम् ॥ ७ ॥

अरण्योरधरोत्तरारण्योः स्थितोऽग्निः । गर्भिणीभिः पानभोजनादिना