पृष्ठम्:काठकोपनिषत्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४ ॥ य इमं मध्वदं वेद आत्मानं जीवमान्तिकात् । ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ ५ ॥ यः पूर्वं तपसो जातमद्भयः पूर्वमजायत । [ शांकरभाष्यम् ] मध्यं स्वमविज्ञेयमित्यर्थः । तथा जागरितान्तं जाग- रितमध्यं जागरितविज्ञेयं च । उभौ म्वप्नजागरितान्तौ येनात्मनानुपश्यति लोक इति सर्वं पूर्ववत् । तं महान्तं विभुमात्मानं मत्वावगम्यात्मभावेन साक्षादहमस्मि परमात्मेति धीरो न शोचति ॥ ४ ॥ किंच-यः कश्चिदिमं मध्वदं कर्मफलभुजं जीवं प्राणादिकलापस्य धारयि- तारमात्मानं वेद विजानात्यन्तिकादन्तिके समीप ईशानमीशितारं भूतभव्य- स्य कालत्रयस्य ततस्तद्विज्ञानादूर्ध्वमात्मानं न विजुगुप्सते न गोपायितुमि- च्छत्यभयप्राप्तत्वात् । यावाद्धि भयमध्यस्थोऽनित्यमात्मानं मन्यते तावद्रो- पायितुमिच्छत्यात्मनः । यदा तु नित्यमद्वैतमात्मानं विजानाति तदा किं कः कुतो वा गोपायितुमिच्छेदेतद्वै तदिति पूर्ववत् ॥ ५ ॥ यः प्रत्यगात्मेश्वरभावेन निर्दिष्टः स सर्वात्मेत्येतद्दर्शयति---यः कश्चि- न्मुमुक्षुः पूर्वं प्रथमं तपसो ज्ञानादिलक्षणाद्रह्मण इत्येतज्जातमुत्पन्ने हिरण्य- गर्भम् । किमपेक्ष्य पूर्वमित्याह-अद्भ्यः पूर्वमप्सहितेभ्यः पञ्चभूतेभ्यो न केवलाभ्योऽद्भ्य इत्यभिप्रायः । अजायतोत्पन्नो यस्तं प्रथमजं देवादि- [प्रकाशिका] त्मना लोकः पश्यतीत्यर्थः । तमिति शेषः । उक्तोऽर्थः ॥४॥ इदमिति लिङ्गव्यत्ययश्छान्दसः । इमं मध्वदमृतं पिबन्ताविति निर्दिष्टं कर्मफलभोक्तारं जीवात्मानं गुहां प्रविष्टावित्युक्तरीत्या तस्यान्तिके काल- त्रयवर्तिचिदचिदीश्वरं च यो वेद तं दुष्कृतकारिणमपि न निन्देदित्यर्थः । " गुप्तिज्किद्भ्यः सन् " पा. सू. ३।१।६ इत्यत्र जुगुप्साशब्दो निन्दा- र्थक उक्तः । " जुगुप्साविरामप्रमादार्थानाम्" वा. इति । तत इति पञ्चमी । एतद्वै तदिति पूर्ववत् ॥ ५ ॥ " अप एव ससर्जादौ तासु वीर्यमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामह ॥" इति स्मृत्युक्तरीत्याद्भ्य उपाद्रानेभ्यो यष्टिसृष्टेः पर्वं योऽजायत तं तपसः संकल्पमात्रादेव पूर्वं जातम् । " यो देवानां प्रथमं पुरस्तात् " " विश्वाधिको रुद्रो महर्षिः "क्ष्वे ० ३ । ४ " हिरण्यगर्भ पश्यत जाय-